पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१२
नषधायचारत

भूम्यां कलङ्कस्य नीलीभिः प्रभाभिर्मिश्रा विभा कान्तिर्येषां ते कलङ्कनीलकान्तिच्छुरिता इव विभान्ति । यतः कीदृशाः-ज्योत्स्नैव पयो जलं दुग्धं वा यस्मिंस्तादृशं क्ष्मातटं दुग्धधवलचन्द्रिकाधवलीकृतं भूतलं तदेव वास्तु वसतिगृहं येषां तानि वस्तूनि वृक्षादिपदार्थास्तेषां छाया छलं येषां तादृशानि छिद्राणि प्रकाशेन रिक्तत्वाद्विलानि पदार्थप्रतिच्छायारूपाणि तानि धरन्तीति तादृशाः। चन्द्रिकाधवलिताः पदार्थाश्चन्द्ररश्मय एव, वृक्षादिप्रतिच्छायाश्चन्द्रकलङ्कनीलरश्मय एवेति धरायामपि निपतिताश्चन्द्रकिरणा नीलधवला एव शोभन्ते इत्यर्थः । अन्यस्य करा हस्ताः कलङ्कवन्नीलस्य नीलमणेः प्रभया मिश्रकान्तयो नीलमणियुक्ताङ्गुलीयकप्रभामिश्रा विभान्ति । शुभ्रांशुशुर्म्राशु-' इति पाठेऽपि 'अंशुर्लेशे रवे रश्मौ' इत्यभिधानादंशुशब्दस्य लेशवाचित्वात्स एवार्थः । ज्योत्स्वैव पयो जलं तस्य क्षमा भूमिस्तस्यास्तटं तदेव वास्तु निवासस्थानं येषां तेषां वस्तूनां छायाया व्याजेन छिद्राणि धरन्तीति वा ॥

कियान्यथानेन वियद्विभागस्तमोनिरासाद्विशदीकृतोयम् ।
अद्भिस्तथा लावणसैन्धवीभिरुल्लासिताभिः शितिरप्यकारि॥७३॥

 कियानिति ॥ उदितमात्रेणानेन चन्द्रेण तमोनिरासाद्धेतोः कियान् किंचिन्मात्रोयं वियद्विभागः पूर्वाकाशदेशो यथा विशदीकृतः, तथा चन्द्रकिरणैरुल्लसिताभिर्वृद्धिं प्रापिताभिर्लावणसैन्धवीभिरद्भिः कियानयं वियद्विभागः शितिः श्यामोऽप्यकारि । अप्रौढप्रभे चन्द्रे पूर्वाकाशदेशस्तिमिरनिरासाद्धवलो भवति, ततो निरस्तस्य च तमसः प्रतीच्यां घनीभूतत्वात्पश्चिमाकाशदेशः श्यामलो भवतीति । तत्रेयमुन्प्रेक्षा । समुद्रजलं च नीलं, पूर्वाकाशदेश एव नीलैः समुद्रजलैः पुनर्नीलोप्यकारीति वा । लवणसिन्धोरिमाः 'तस्येदम्' इत्यणि 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धिः ॥

गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेनु चन्द्रः।
चिरेण सोयं भजते तु यत्ते न नित्यमम्भोधिरिवात्र चित्रम्॥७४॥

 गुणाविति ॥ चन्द्रो निजकारणस्य पयोधेर्हानिवृद्धिरूपौ गुणौ कथं नैतु प्राप्नोतु, अपितु कार्यगुणानां कारणगुणपूर्वकत्वनियमादश्यमपचयोपचयौ चन्द्रं प्राप्नुत इति युक्त मेवेत्यत्र न किंचिञ्चित्रमित्याशङ्याह-सोयं चन्द्रस्ते हानिवृद्धी यश्चिरेण पक्षान्तपरिमितेन बहुना कालेन भजते, नतु अम्भोधिरिव नित्यं प्रत्यहं भजते, अत्र विषये चित्रमित्याश्चर्यम् । समुद्रो यथा प्रत्यहं हानिवृद्धी भजते, तथा पुत्रापि चन्द्रो नेत्याश्चर्यमित्यर्थः॥

आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम् ।
त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम् ॥ ७५ ॥

 आदर्शति ॥ अयं चन्द्र आदर्शवदृश्यत्ववृत्तत्वादिना रमणीयत्वं श्रितो भजमानोप्यादर्शवदृश्यां रमणीयां मूर्तिं न बिभर्ति चित्रम् । यो ह्यादर्शवदृश्यो भवति स एवादर्शव-