पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
नैषधीयचरिते

कुचे शोभते, न तु वृद्धयोषितः। 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम्' इत्यालंकारिकाः। रामणीयकं कामनीयकवत् ॥

पुनरुत्कण्ठार्थमाह-


तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः ।
इयमृद्धXधना वृथावनी स्ववनी संप्रवदत्पिकापि का ॥ ४५॥

 तवेति ॥ हे राजन् , तव इदं दृश्यमानमनुपमं रूपं तया भैम्या विना विफलं निरर्थकम् । कस्य किमिव-अवकेशिनो वन्ध्यवृक्षस्य विफलं फलरहितं पुष्पमिव । तद्यथा न शोभते । अथवा-अवकेशिनो मुण्डितमुण्डस्य शिरसि धार्यमाणं पुष्पं यथा विफलम् । तया विना न केवलं रूपं विफलम् , किं च (तु)-ऋद्धधना पूर्णधना इयमवनी पृथ्व्यपि वृथा व्यथैव । तथा-संप्रवदन्तः कूजन्तः पिकाः कोकिला यस्यां सा स्ववन्यपि स्वयमारोपिता विलासवाटिकापि का, न कापि । भैमीप्राप्त्यभावे सर्वमेतन्निरर्थकमित्यर्थः । 'वन्ध्योफलोऽवकेशी च' इत्यमरः । वनी इति गौरादित्वान्ङीप् । अव्यक्तवाक्त्वात्संप्रवददित्यत्र वदेः शता ॥ अहमेवैतद्रूपयोग्यस्तर्ह्यसुलभा कथमित्यत आह-

अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ ४६ ॥

 अनयेति ॥ यतः सुरैर्देवैरपि काम्यमानयाभिलष्यमाणयानया भैम्या सह योगः संबन्धस्तु त्वया न सुलभः सुप्रापः । तत्र युक्तिमाह-केनेव अम्बुदागमे वर्षाकाले घनसंवृतया मेघच्छन्नया निशाकरस्य चन्द्रस्य त्विषा दीप्त्या सह संबन्धः कुमुदेनेव । सुप्रापो न । प्राप्स्यते, परंतु दुःखेन मदुपायेन सा प्राप्या । तत्र गत्वा त्वय्येव तस्या अनुरागमुत्पाद्य त्वामेव यथा भजेत्तथा करिष्यामीति भावः । यथा वर्षासु मेघानामतिप्रतिबन्धकतया कुमुदेन चन्द्रज्योत्स्ना दुष्प्रापापि वायुना दैवा़न्मेघनिराकरणे प्राप्यते तथेत्यर्थः। सुलभः खलर्थत्वेन षष्ठीनिषेधात्त्वयेति तृतीया । व्यञ्जितमर्थं व्यक्तीकुर्वन्निगमयति-

तदहं विदधे तथातथा दमयन्त्याः सविधे तव स्तवम् ।
हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते ॥ ४७ ॥

तदिति ॥ तत्तस्मात् योग्यस्य सान्तरायत्वात्कारणादहं दमयन्त्याः सविधे समीपे


 १ 'अत्र प्रतिवस्तूपमालंकारः' इति साहित्यविद्याधरी । 'अत्र हारकिलकिच्चितयोरुपमानोपमेययोर्वाक्यद्वये बिम्बप्रतिबिम्बतया स्तननृपयोः समानधर्मत्वोक्तेर्दृष्टान्तालंकारः' इति जीवातुः। २ 'अत्र छेकानुप्रासोऽलंकारः । अर्थालंकारास्तु विनोक्तिदीपकोपमालंकाराः' इति साहित्यविद्याधरी। ३ अत्र हि बिम्बप्रतिबिम्बभावेनोपमालंकारः' इति साहित्यविद्याधरी। 'अत्र तत्संयोगदौर्लभ्यस्यामरकामनापदार्थहेतुकत्वात्काव्यलिङ्गभेदः । तत्सापेक्षा चेयमुपमेति संकरः' इति जीवातुः।