पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१०
नैषधीयचरिते


धार्यते । तथा चैतस्य षोडशीं कलां मृडः प्राप्नुवन्पूजयन्नपि च तां प्राप्नोतीति विरोधपरिहारः। यतः-किंभूतस्येन्दो:-किंभूतश्च मृड:-अङ्कभूतो य एणो हरिणस्तद्युक्ता नाभिर्मध्यभागो यस्य, अथच-अङ्करूपा कलङ्करूपा एणनाभिः कस्तूरी यत्र । मृडस्तु-विषेण कृष्णकण्ठः । तथा-सुधयामृतेनाप्ता शुद्धिर्धावल्यं येन । मृडस्तु-कटशस्मना चिताभस्मना पाण्डुः । तस्माञ्चन्द्रस्याल्पमपि साम्यं शिवो न प्राप्नोति । किंच चन्द्रादधिकः शिवश्चेदभविष्यत् , तर्हि तदीयकलां मौलौ नाधारयिष्यत्, सा मौलौ धृता, तेन तस्साच्चन्द्र एव तदधिक इत्यर्थः । शुभस्याशुभस्य च महदन्तरमिति भावः । षोडशीमपि कलां नाहतीत्यनेन पूर्णचन्द्रं नार्हतीति किं वाच्यमित्यपि सूचितम् । हरस्यापकर्षे विषं, चिताभस्म च हेतुः। चन्द्रोत्कर्षेे मृगमदोऽमृतं च ॥

पुष्पायुधस्यास्थिभिरर्धदग्धैः सितासितश्रीरघटि द्विजेन्द्रः।
स्मरारिणा मूर्धनि यद्धृतोऽपि तनोति ततौष्टिकपौष्टिकानि ॥६७॥

पुष्पेति ॥ ब्रह्मणा द्विजेन्द्रश्चन्द्रः पुष्पायुधस्य कामस्यार्धदग्धैरस्थिभिः कृत्वाऽघटि निर्मितः । अतएव सितासितश्रीरुपान्तधवलमध्यश्यामलकान्तिः । स्मरास्थिभिरेव निमित इत्यत्र हेतुमाह-स्मरारिणा मूर्धनि धृतोऽपि, अथच ----कृतसंमानोपि, तस्य स्मरस्यैव तौष्टिकानि हर्षकारीणि, पौष्टिकानि अभिवृद्धिकारीणि च यद्यस्मात्तनोति । कामारिणा पूज्यमानोपि कामहितमेव यस्मात्करोति, तस्मात्तदस्थिभिरेव घटित इत्यर्थः । एतादृक्कामोद्दीपकं किमपि नास्तीति भावः । अस्थिभिरिवेति प्रतीयमानोत्प्रेक्षा । अन्याश्रितोपि तदीयशत्रुहितं यः करोति स तदस्थिभिर्घटित इति लौकिक्युक्तिः । तौष्टिकपौष्टिकानि, 'प्रयोजनम्' इति ठक् ॥

मृगस्य लोभात्खलु सिंहिकायाः सूनुर्मृगाङ्कं कवलीकरोति
स्वस्यापि दानादमुमङ्कसुप्तं नो[१]ज्झन्मुदा तेन च मुच्यतेऽयम् ॥६७॥

 मृगस्येति ॥ सिंहिकायाः सुतो राहुर्मंगाङ्कं चन्द्रं यत्कवलीकरोति तदङ्कमृगस्य लोभात् खलु ग्रासाभिलाषावि । सिंहिकासुतः सिंहो मृगैरङ्कितं स्थलं मृगग्रासाभिलाषादेव स्वाधीनं करोति । तर्हि किमर्थं मुञ्चतीत्यत आह---अङ्कसुप्तं मध्यवर्तिनम् , अथच-उत्सङ्गे विश्वासात्सुखेन निद्रितम्, अमुं मृगं स्वस्यापि दानाद्राहुदन्तकृतख- ण्डनादपि नोज्झन्न त्यजन्, अथच-स्वशरीरस्यापि वितरणादत्यजन्, अयं चन्द्रस्तेन राहुणा तेन पुण्येन च हेतुना मुदा शरणागतरक्षणनिमित्तहर्षेण कृत्वा मुच्यते त्यज्यते । अन्योपि शरणागतं मृगं जिघांसोः सिंहाद्रक्षितुमात्मानमपि ददानो हि तेन पुण्येन सिंहान्मुच्यत एव । 'नौज्झत्' इति पाठे-स्वस्यापि दानादङ्कसुप्तममुं यतो नामुञ्चत्तेन हेतुनाऽयं विमुच्यते, अर्थादाहुणेत्यर्थः ॥

सुधाभुजो यत्परिपीय तुच्छमेतं वितन्वन्ति तदर्हमेव ।
पुरा निपीयास्य पितापि सिन्धुरकारि तुच्छः कलशोद्भवेन॥६९॥


  1. 'नौज्झत्' इत्यपि पाठः सुखावबोधासंमतः ।