पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००९
द्वाविंशः सर्गः।

च सत्सु चन्द्रे स्थिते विद्यमानेऽपि सकलकुमुदविकासाभावात्सकलं जगत्तथा रात्राविव शीतलधवलतया न चक्रास्ति । तस्मादिदं जगत्कुमुदहासत्विषैव शीतलं धवलं च कृतम् , नतु चन्द्रेणेत्यर्थः । कुमुदवदुग्धवच्च शीतला धवला चन्द्रचन्द्रिकास्तीति भावः॥

मृत्युंजयस्यैष वसञ्जटायां न क्षीयते तद्भयदूरमृत्युः ।
न वर्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव ॥ ६४ ॥

 मृत्युमिति ॥ मृत्युंजयस्य मृत्यु जितवतः शिवस्य जटायां वसन्नेष चन्द्रः षोडशांशभूतो न क्षीयते नाल्पपरिमाणो भवति, कलामात्रस्वरूपेणैव तत्र सदा वसंस्ततोपि न्यूनपरिमाणो न भवतीत्यर्थः, अथच-न क्षीयते न म्रियते यस्मात् , तस्मान्मृत्युंजयात्सकाशाद्भयेन दूरो मृत्युर्मरणहेतुर्देवता यस्य सः, मृत्युंजयजटाजूटनिवासान्मृत्युना स्प्रष्टुमपि न शक्यते तस्मान्न क्षीयतेऽयमित्यर्थः । तर्हि तत्र वसन्वर्धते किमिति नेत्याशङ्कयाह-वर्धते च न । उपचितोपि न भवतीत्यर्थः । यतः-स्वस्य सुधया आप्तो जीवश्चैतन्यं यैस्तानि स्रजो मुण्डानि शिरोमालायाः शिरःकपालानि तान्येव राहवस्तेभ्य उद्भवा समुत्पन्ना भीर्यस्य । कथम्-अतीव । नितरां भीत इत्यर्थः । सजीवमुण्डेषु बहवो राहव एवैते इति धिया भिया न वर्धते । भीतो हि सौख्याभावात्कृशतर एव भवति । अथच -पूर्णस्य राहोः सकाशाद्भयम् । अतः कारणद्वयान्न क्षीयते, न च वर्धते इत्येककल एव शिरश्चन्द्र इत्यर्थः । एतेन चन्द्रस्य षोडशी कला वर्णिता । शिवशिरसि वर्तमानत्वादस्य माहात्म्यमपि वर्णितम् ।मृत्युंजयेति, “संज्ञायां भृतृवृजि-' इति खश्, 'अरूर्द्विष-' इति मुम् ॥

त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय ।
ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् ॥ ६५ ॥

 त्विषमिति ॥ एष चन्द्रो जयति सर्वोत्कर्षेण प्रकाशते । यतः किंभूतः- काराय स्वावयवं त्विषं निजांशभूतां चन्द्रिकां ददत् । तथा-सुराय अग्न्यादिदेवेभ्यो निजांशभूतां सुधां ददत् । तथा-हराय निजांशभूतां कलां ददत् । अथापि अस्य चन्द्रस्यैतत्समस्तं परोपकारकरणमल्पमेव । अतिचमत्कारकारि न भवतीत्यर्थः । यतः-समुद्रोत्पन्नत्वात्कल्पद्रुमस्य भ्रातुः । कल्पद्रुमस्तु कल्पितं सर्वं सर्वेभ्यो ददाति, अयं तु न तथेत्यल्पमेवेत्यर्थः । एवंविधः परोपकारी कोपि नास्तीति भावः । चकोरायेति जात्येकवचनम् ॥

अङ्कैणनाभेर्विषकृष्णकण्ठः सुधाप्तशुद्धेः कटभस्मपाण्डुः ।
अर्हन्नपीन्दोर्निजमौलिधानान्मृडः कलामहर्ति षोडशीं न ॥६६॥

 अङ्केति ॥ मृडः शिवो निजमौलौ धानात्स्थापनाद्धेतोरिन्दोः षोडशी कलामर्हन्प्राप्नुवत् , अथच-पूजयन् अपि षोडशी कलां नार्हति न प्राप्नोति, न पूजयति च । निज३शिरसि धारणादेव तस्याः प्राप्तिः पूजा च संभविनी । यो ह्यतितरां पूज्यते स शिरसि