त्सदृशः। अतिस्वादुरसोपीक्षुविशेषो यदीयसरसवाणीतीरतृणमनुकरोति, नतु समो जातः । तां वाणीं श्रावय, चन्द्रं वर्णयेति भावः। 'कोषकाराद्या इक्षुविशेषाः' इति क्षीरस्वामी । अनूपय, अनूपशब्दात्, 'तत्करोति-' इति णिचि लोट् ॥
अत्रैव वाणीमधुना तवापि श्रोतुं समीहे मधुनः सनाभिम् । |
अत्रैवेति ॥ इति प्रियेण प्रेरितया तया भैम्याथानन्तरं शशिनः प्रशस्तिर्माहात्म्यं प्रस्तोतुमारम्भि प्रारब्धा । इति किम्-हे भैमि, अहमत्रैव चन्द्रवर्णन एव विषय मधुनोमृतस्य सनाभि तुल्यां तवापि वाणीमधुना श्रोतुं समीहे इच्छामीति ॥
पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति । |
पूरमिति ॥ हे प्रिय, अयं विधुः पयोधेः पूरमागन्तुकजलप्रवाहं वर्धयितुमेणाङ्कमणिं चन्द्रकान्तं कियन्ति पयांसि दोन्धि तस्माद्गृह्णाति । तथा-प्रियस्य चक्रवाकस्य विप्रयोगेन सशोकायाः कोक्या नयने अपि कियन्ति जलानि दोग्धि, ताभ्यामपि सकाशाज्जलं कियगृहातीत्यहं शङ्के मन्ये । इति भैमी प्रियमवदत् । उदिते चन्द्रे सागरपूरो वृद्धिं प्राप्तः, चन्द्रकान्ताः स्रवन्ति, चक्रवाकी भृशं रोदितीति भावः । दुहिद्विकर्मा ॥
ज्योत्स्नामयं रात्रिकलिन्दकन्यापूरानुकारे प्रसृतेऽन्धकारे। |
ज्योत्स्नेति ॥ हे प्राणेश, तमोवसरेऽतिश्यामा रात्रिरेव कलिन्दकन्या यमुना तस्याः पूर आगन्तुकातिनीलजलप्रवाहस्तदनुकारे तत्सदृशे तद्वदतिकृष्णेऽन्धकारऽपसृते गते सति परिस्फुरन्ती निर्मला दीप्तिर्यस्य । प्रकाशमानश्चासौ धवलद्युतिश्च तादृशो या यश्चन्द्रः स एव दीपो यत्र तादृशं चन्द्रिकारूपं सैकतं धवलतरवालुकामयं रात्रियमुनाया एव जलमध्यस्थितमन्तरीपं द्वीपं व्यक्तायते स्फुमिव भवति प्रकटं दृश्यते । पूरावसरेऽस्फुटमपीदानीं स्फुटीभवतीति शङ्के । चन्द्रचन्द्रिकया सकलं धवलीकृतमिति भावः । व्यक्तमिव भवति 'कर्तुः क्यङ्-' इति क्यङ् । अव्यक्तं व्यक्तं भवतीत्यर्थः । संकतम् 'सिकताशर्कराभ्यां च' इत्यस्त्यर्थेऽण् ॥
हासत्विषैवाखिलकैरवाणां विश्वं विशङ्केऽजनि दुग्धमुग्धम् । |
हासेति ॥ अखिलकैरवाणां सकलकुमुदानां हासत्विषैव विकासदीप्त्येव विश्वं सकलं जगत् दुग्धवत् मुग्धं धवलं शीतलं चाजनि जातम, नतु चन्द्रेणत्यहं विशङ्के विशेषेण मन्ये । यतो हेतोर्दिवा तेषु सकलकैरवेषु बद्धमुखेषु संकुचितेष्वविकस्वरेषु