पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००७
द्वाविंशः सर्गः।

विधिस्तुषारर्तुदिनानि कर्तं कर्तं विनिर्माति तदन्तभित्तैः ।
ज्योत्स्नीर्नचेतत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥ ५७ ॥

 विधिरिति ॥ विधिस्तुपारतोः शिशिरतौर्दिनानि कर्तं कर्तं छित्त्वा छित्त्वा तेषां दिनानामन्तभित्तैर्मध्यसंबन्धिभिः सारभूतैः शकलैः शुभ्रैः खण्डैः कृत्वा ज्योत्स्नीर्निशा विनिर्माति । नचदेवं यदि नाङ्गीक्रियते, तदेमा रात्रयश्चन्द्रिकायुक्तास्तत्प्रतिमास्तैर्दिनैस्तुल्याः शीतलत्वप्रकाशवत्त्वाभ्यां तत्सदृश्यः कथम् तानि च दिनानि वामनानि न्यूनपरिमाणानि न्यूनशीतत्वादिगुणानि कथं वा । अपितु-दिनवामनता रात्रिदीर्घतान्यथानुपपत्तेः शिशिर दिनापेक्षया च ज्योत्स्नीनामतितमां शीतत्वप्रकाशवत्त्वानुपपत्तेश्च शिशिरर्तुदिनानि छित्त्वाच्छित्त्वैव तत्सारभूतैश्च शकलैश्चन्द्रिकान्विता रात्रयो ब्रह्मणा वर्धिता इत्यर्थः । चन्द्रचन्द्रिकया रात्रिः शीतला धवलतरा च कृतेति भावः । कर्तं कर्तम्, 'कृती छेदने' इत्यस्मादाभीक्ष्ण्ये णमुल् द्विर्वचनं च । ज्यौत्स्त्रीः, ज्योतिरस्यायमस्तीत्यर्थ 'ज्योत्स्नातमिस्रा-' इति साधुकृताज्योत्स्नाशब्दाद् 'अण्प्रकरणे ज्योत्सादिभ्य उपसंख्यानम्' इत्यस्त्यर्थेऽणि ङीप् ॥

इत्युक्तिशेषे स वधूं बभाषे सूक्तिश्रुतासक्तिनिबद्धमौनाम् ।
मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि मूकमुद्रा ॥ ५८ ॥

 इतीति ॥ स नलः इत्युक्तिशेषे एवं चन्द्रवर्णनावसाने सूक्तीनां प्रसादादिगुणयुक्तानां शोभनवचनानां श्रुते श्रवणे विषये आसक्त्या रसातिशयात्तदेकतानतया बद्धं स्वीकृतं मौनं यया तां तृष्णींभावमास्थितां वधूं भैमीं प्रतीदं बभाषे । इति किम्-हे प्रेयसि, इन्दौ विषये तवेयं मृकस्येव मुद्रा वाग्निरोधरीतिः का किंकारणिका । त्वमपि किमिति न चन्द्रं वर्णयसीत्यर्थः । मौने स्वयमेव हेतुमुत्प्रेक्षते-मुखस्य चन्द्रकृतवदनसाम्यस्याभ्यसूया स्पर्धा तज्जन्यान्महतोऽनुशयान्मनोद्वेषादिव।स्वस्पर्धाकारिणो हि वर्णनेऽन्येन क्रियमाणेऽन्यापि कोपात्तृष्णीं तिष्ठति, नानुमोदते, स्वयं च न तं वर्णयति । तथात्वन्मुखस्पर्धाकरणसंजातकोपादिवेन्दुं न वर्णयसि नानुमोदसे च किमिति प्रश्नः । नलसूक्तिश्रवणादरकृतं मौनं कोपादिवेत्युत्प्रेक्षितम् ॥

शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजानूपय कर्णकूपौ।
त्वञ्चारुवाणीरसवेणितीरतृणानुकारः खलु कोशकारः ॥ ५९॥

 शृङ्गारेति ॥ हे प्रिय, त्वं शृङ्गाररससंबन्धी भृङ्गारः स्वर्णकलशस्तद्रपेण सुधाकरेण चन्द्रेण हेतुना वर्णस्रजा कृत्वा मम कर्णकूपौ अनूपय जलपूर्णौ कुरु । वर्णस्रजः सरसत्वात्कर्णकृपयोर्जलपूर्णत्वकरणं युक्तम् । अथच-शृङ्गाररससंबन्धिस्वर्णकलशस्य भवन्मुखस्य संबन्धि यत्पीयूषं तस्याकरेण खनिभूतया सरसया वर्णस्रजा कर्णकूपावनूपय । खलु यस्मात् कोषकार इक्षुविशेषस्तव चारुवाण्या वक्रोक्त्यादिरूपाया वाचःसंबन्धिनः श्रृङ्गारादयो रसास्तेषां वेणिः प्रवाहस्तस्यास्तीरे समुद्यद्यत्तृणं तस्यानुकारस्त-