पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००५
द्वाविंशः सर्गः।

त्रपते लज्जते बत चित्रम् । किंभूतः-न विद्यते कर्णनासं स्वभावादेव यस्य सः । तथा-रक्ता आरक्ता उस्राः किरणास्तद्वर्षणशीलः, शोणश्चासौ किरणवर्षी च तादृशो वा । तथा--लक्ष्मणा कलङ्केनाभिभूत आक्रान्तमध्यः, अत एव शूर्पणखाया रावणभगिन्या मुखवदाभा यस्य स तद्वदनतुल्यः । एषु लजाकारणेषु सत्स्वपि न लज्जते तच्चित्रमित्यर्थः । त्वन्मुखं पश्यन्नप्युदयत्येव, स्वं प्रकाशयति च, तस्मादेव न लज्जते इति ज्ञायते । अन्यो ह्यकर्णनासो लज्जते, अयं तु तादृशोपि न लज्जत इत्यपि चित्रमेव । शूर्पणखामुखमपि लक्ष्मणेन पराभूतं छिन्नकर्णनासत्वाद्रुधिरवर्षि सद्राममभि लक्षीकृत्य वर्तमानम् , अत एवाभि भयरहितं च, सीतामुखं पश्यदपि न लज्जते, तदनन्तरमपि प्रौढिवादप्रकटनात् । अभिशब्दस्यावृत्तिः कार्या । लक्ष्मशब्दो नान्तः, पक्षेऽकारान्तः॥

आदत्त दीप्तं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः ।
रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन ॥ ५२ ॥

 आदत्तेति ।। हे भैमि, सायंकालरूपो धृर्तो यद् रज्यन्नुदयकाले रतीभवंस्तुषारद्यु- तिश्चन्द्र एव लेपवशाद्रज्यत् कूटहेम कृत्रिमं सुवर्णमस्मै गगनाय मूल्यरूपेण दत्त्वा दीप्रं प्रकाशमानमम्बरस्य मणिं सूर्यमादत्त जग्राह । तदलीकं हेम क्षणमात्रेण पाण्डु शुभं रजतं खलु रूप्यमिव जातम् । धूर्तो हि रूप्यं लेपादिभिरुपलिप्तं सुवर्णीकृत्य द- दाति, वस्त्रान्तरस्थमपि प्रसरद्दीप्तिकं रत्नं च गृह्णाति । उदयानन्तरमतिक्रान्तकियत्का- लत्वाद्रक्तिमान परित्यज्य चन्द्रो रूप्यवद्धवलो जात इति भावः । घञन्तोऽत्र साय- शब्दः सायंशब्द समानार्थः ॥

बालेन नक्तंसमयेन मुक्तं रौप्यं लसड्डिम्बमिवेन्दुबिम्बम् ।
भ्रमिक्रमादुज्झितपट्टसूत्रनेत्रा [१] वृतिं मुञ्चति शोणिमानम् ॥ ५३ ॥

 बालेनेति ॥ हे प्रिये, रौप्यं राजतं रजतमयं लसद्विलसमानं डिम्वं बालक्रीडासाधनं भ्रमरकामवेन्दुबिम्बं कर्तृ भ्रमक्रमाद्भ्रमणपरिपाट्या, अथच-ऊर्ध्वदेशगमनक्रमेणोज्झिता त्यक्ता या पट्टसूत्रस्य नेत्रं दोरकस्तत्कृता आवृतिवेष्टनं तद्रूपम्, अथच-पट्टसूत्रजालिकायत् चन्द्रावरणं येन तं शोणिमानं रक्तिमानं मुञ्चति । किंभूतमुभयम्-नक्तं समयरूपेण बालेन, अथच ---बालेन प्रदोषरूपेण, रात्रिसमयेन मुक्तं भ्रमणार्थं करात् कृतमोचनम्, अथच-उद्गीर्णं जनितोदयम् । शिशुक्रीडासाधनं हि भ्रमरकं काष्ठमयं भवति । ईश्वराणां च डिम्बं समृद्ध्यतिशयाद्राजतं पट्टसूत्रवलितदोरकस्रंसनात्तत्संबन्धजातं रक्तिमानं मुञ्चति । तथेदं चन्द्रबिम्बमपीत्यर्थः । इदानी चन्द्रो धवलो जात इति भावः । 'नेत्रावृतः-' इति पाठे-भ्रमिक्रमाद्धेतोरुज्झिता या पट्टसूत्रनेत्रावृतिस्तस्या हतोः शोणिमानं मुञ्चति । उज्झिता डिम्बेनैव पट्टसूत्रनेत्रावृतिर्यत्र तादृशाद्भूमिक्रमाद्धेतोरिति वा । डिम्बं ललडिम्बमिति वा गौडदेशभाषायां भ्रमरकस्य संज्ञा । महाराष्ट्रभाषायां कान्यकुलभाषायांच 'भवरा' इति संज्ञा।रौप्यं, संबन्धे विकारे वाण् ।


  1. ’नेत्रावृनेः’ इत्यपि पठः सुखावबोधस्थः ॥