पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००२
नैषधीयचरिते

किम्पुनरुदितः सन्निति भावः । अन्योप्युपकारी दूरस्थोऽप्युदयोन्मुखोऽन्येषामुपकरोति । चुलुकप्रम्, 'वर्षप्रमाणे-' इत्यादिना पूरेर्णमुल्, ऊकारलोपश्च ॥

ध्वान्ते द्रुमान्तानभिसारिकास्वं शङ्कस्व सङ्केत्तनिकेतमाप्ताः ।
छायाछलादुज्झितनीलचेला ज्योत्स्नानुकूलैश्चरिता दुकूलैः ॥ ४२ ॥

 श्ध्वान्त इति ॥ हे प्रिये, त्वं चन्द्रोदयात्पूर्वं ध्वान्ते सति द्रुमान्तान् तरुनिकटदेशानेव वृक्षाधोभागानेव सम्भोगार्थं कामुकदत्तं सङ्केतनिकेतमाप्ताः प्राप्ता अभिसारिकाः स्वैरिणीः शङ्कस्व सम्भावय । तथा इदानीं चन्द्रोदये सति वृक्षाधोभागवर्तिछायाच्छलादुज्झितं पूर्वं धृतं तमोनुकूलं नीलं चेलं वस्त्रं याभिस्तादृशीः सतीः सवर्णत्वाज्ज्योत्स्नानुकूलैश्चन्द्रिकानुगुणैर्धवलतरैर्दुकूलैरुपलक्षिताः सतीश्चलिताः सम्भोगं कृत्वा स्वगृहं प्रति पुनः परावृत्तास्त्वं सम्भावय । तमसि सत्येव केनापि न ज्ञातव्यमिति बुद्ध्या नीलं वस्त्रं परिधाय सङ्केतस्थानमागताः, चन्द्रोदये पुनर्नीलवस्त्रपरिधाने पूर्ववद्भीत्या तत्तत्रैव विहाय श्वेतं दुकूलं सवर्णत्वात्परिधाय परावृत्ताः केनापि न शाताः । 'नीलचोला:-' इति पाठे-चोलः कूर्पासः ॥

त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुम् ।
दृशा निशेन्दीवरचारुभासा पिबोरु[१] रम्भातरुपीवरोरु[२] ॥ ४३ ॥

 त्वदिति ॥ हे रम्भातरुवदतिपीवरावूरू यस्यास्तत्सम्बुद्धिः त्वं निशायामिन्दीवरं नीलोत्पलं तद्वच्चार्वी भा यस्यास्तया दृशा उरु सादरमिन्दुबिम्बं विलोकय । किम्भूतम्- तवास्यलक्ष्म्या मुखशोभाया अवलोकनार्थं मुकुरं दर्पणमिव । तथा-चकोरैः प्रयोज्यैः कौमुदीमादयमानं निजकौमुदीं चकोरान् पाययमानम् । उदिते चन्द्रे चकोरैः सानन्दा जाताः, नीलोत्पलानि च विकसितानीति भावः । एतेनेन्दोः परोपकारित्वं सूचितम् । विकसितेन्दीवरतुल्यया दृशा पिबेत्यनेन चन्द्रोदये हीन्दीवरं विकसति, त्वं चैवम्भूतया दृशा यदा चन्द्रमवलोकयिष्यसि, जनस्त्वद्दृशं चन्द्रावलोकविकसितमिन्दीवरमेवैतदिति ज्ञास्यतीति सूचितम् । दिवा सङ्कोचादसादृश्यऽमितीन्दीवरस्य विकसितत्वद्योतनार्थं निशापदम् । चकोरैः, 'गतिबुद्धि-' इति कर्मत्वप्राप्तावपि आदिखाद्योः प्रतिषेधात्कर्तरि तृतीया । आद्यमानं निगरणार्थत्वात्परस्मैपदप्राप्तावपि 'अदेः प्रतिषेधो वक्तव्यः' इति निषेधात् 'णिचश्च' इति तङ् ॥

असंशयं सागरभागुदस्थत्पृथ्वीधरादेव मथः पुरायम् ।
अमुष्य यस्मादधुनापि सिन्धौ स्थितस्य शैलादुदयं प्रतीमः ॥ ४४ ॥

 असंशयमिति ॥ पुरा पूर्वं सागरभाक् समुद्रगर्भस्थोऽयं चन्द्रः मथो दण्डभूतात्पृथ्वीधरात्पर्वतान्मन्दराद्रेरेव हेतोरुदस्थादुत्पन्न इति असंशयं निश्चितम् । पुराणादौ



  1. 'उरुः पृथुतरो यो रम्भातरुः' इति सुखावबोधा ।
  2. 'पीवरोरुः' इति क्वाचित्कः पाठपदति सुखावबोधा ।