पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
द्वितीयः सर्गः

को भर्ता विनिर्मित इति चिन्तितवानित्यर्थः । यौवतैरिति युवतिशब्दात्सामूहिके भिक्षादित्वादणि 'भस्याढे-' इति प्राप्तः पुंवद्भावो भिक्षादौ युवतिशब्दपाठसामर्थ्यान्न भवति । नसहाधीतवतीमिति 'सुप्सुपा' इति नेन समासः । कतम इति 'कतरकतमौ जातिपरिप्रश्ने' इति वचनसामर्थ्यात्स्वार्थेऽपि डतमचूX ॥


अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम्।
युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् ॥ ४२ ॥

 अन्विति ॥ इममस्या भैम्या अनुरूपं रूपयोग्यं पतिं निरूपयन् अयं वा योग्यः, अयं वाX योग्य इति विचारयन्नपि अथ पश्चात्सर्वेष्वपि युवसु तरुणेषु पूर्वपक्षतामयोग्यरूपत्वं व्यपनेतुं निराकर्तुमक्षमोऽसमर्थः सन्नहं त्वयि सिद्धान्तधियं भैमीरूपानुरूपत्वबुद्धिं निःसपत्नं निश्चयं न्यवेशयं निवेशितवान् । अथ पश्चात्त्वयीति वा । त्वत्तोऽन्यस्तद्योग्यः कोऽपि तरुणो न विद्यत इति ॥ अन्यत्रापि पूर्वपक्षापेक्षया सिद्धान्तस्य बलवत्त्वम् ॥

अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥४३॥

 अनयेति ॥ चिरं चिरकालमवलोकितापि शुचिस्मिता रम्यहास्या सा भैमी अद्य मे स्मृतिं स्मृतिपथमारूढवती प्राप्ता । किंभूतस्य मे-तवानया दृश्यमानया रूपसीमया लावण्यमर्यादया कृतं जनितं संस्कारविबोधनं पूर्वाहितभावनाख्यसंस्कारसमुद्वोXधो यस्य । तद्रूपयोग्यत्वात्त्वद्रूपदर्शने सा स्मृतेत्यर्थः । सदृशदर्शने हि स्मृतिर्भवति । 'सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः' इति । रूपसीमयेति 'डाबुभाभ्याम्-' इति डापि तृतीया ॥

त्वयि वीर विराजते परं दमयन्तीकिलकिञ्चितं किल ।
तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥ ४४ ॥

 त्वयीति ॥ किलेति संभावनायाम् । हे वीर हे शूर, किल दमयन्त्याः किलकिञ्चितं शृङ्गारचेष्टाविशेषः त्वयि परं केवलं विराजते विशेषेण शोभते । वीरस्यैव शृङ्गारित्वं युज्यते, वीरानुरागिणश्च स्त्रियः इति सूचनार्थं वीरेति पदम् । अर्थान्तरन्यासं दृष्टान्तत्वेनाह-मणिहारावलेर्मुक्ताहारसमूहस्य रामणीयकं सौन्दर्यं तरुणीस्तने तरुण्या एव


 १ इदं च वृत्त्यनुसारेणोक्तम् । भाष्यमते तु "भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्प्रत्ययविधौ' इति वार्तिकभाष्यरीत्या युवतिग्रहणस्य भिक्षादिगणे प्रत्याख्यानाङ्गीकारे यौवनति रूपस्यापत्तेः । तस्माच्छत्रन्तङीXबन्तयुवातिशब्दाद् ‘अनुदात्तादेरेञ्' इत्यञि 'भस्याढे तद्धिते' इति पुंवद्भावेन यौवतेति साधनीयम् । २ 'अत्र प्रतीपमलंकारः' इति साहित्यविद्याधरी । ३ 'अत्र सममलंकारः । तथा च काव्यप्रकाश:- 'समं योग्यतया योगो यदि संभावितः क्वचित्' इति साहित्यविद्याधरी। ४ अत्र स्मरणमलंकारः । तथा चोक्तं काव्यप्रकाशे-'यथानुभवमर्थस्य दृष्टे तत्सदृशे स्थितिः । स्मरणम्' इति साहित्यविद्याधरी।