पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०००
नैषधीयचरिते

म्लानिस्पृशः स्पर्शनिषेधभूमेः सेयं त्रिशङ्कोरिव संपदस्य ।
न किंचिदन्यत्प्रति कौशिकीये दृशौ विहाय प्रियमातनोति ॥३७॥

 म्लानीति ॥ म्लानिस्पृशः कालिमस्पर्शिनः श्यामस्य, अथच--चण्डालत्वान्मालिन्ययुक्तस्य निःश्रीकस्य । तथा-अभावरूपत्वात्स्पर्शगुणनिषेधस्य भूमेः स्थानस्य, अथ च-चण्डालत्वादेवास्पृश्यस्यास्य तमसः राज्ञस्त्रिशङ्कोरिव सेयं प्रसिद्धा प्रत्यक्षेण गृह्यमाणा च संपत् बाहुल्येन स्वरूपलाभः, अथच-राज्यसमृद्धिः कौशिकीये औलूके, अथच-वैश्वामित्रे दृशौ नेत्रे विहायान्यत्किंचित्प्रति अपरं किमपि वस्तु लक्षीकृत्य प्रियं हितं तनोति करोति किंतु तदीये एव नेत्रे लक्ष्यीकृत्य हितं करोति । अन्यत्प्रति किंचिदल्पमपि प्रियं नातनोतीति वा । अन्धकारे ह्युलूकनेत्रे एव पदार्थान्पश्यत इति तत्संपत्तयोः प्रिया । त्रिशङ्कोश्च संपद्विश्वामित्रस्यैव नेत्रयोः प्रिया, नान्यस्य । एतदुपा- ख्यानं रामायणादौ प्रसिद्धम् । कौशिकीये, 'वृद्धाच्छः' ॥

मूर्धाभिषिक्तः खलु यो ग्रहाणां तद्भासमास्कन्दितत्रृक्षशोभम् ।
दिवान्धकारं स्फुटलब्धरूपमालोकतालोकमुलूकलोकः ॥ ३८ ॥

 मूर्धेति ॥ यो रविः नवानां ग्रहाणां मध्ये खलु निश्चितं मूर्धाभिषिक्तो राजा । उलूकानां लोकः सङ्घस्तस्य भया दीप्त्या समास्कन्दिता नितरां पराभूता ऋक्षशोभा नक्षत्रकान्तिर्यस्मिंस्तत् । तथा-स्फुटमुपलब्धानि अन्येन जनेन दृष्टानि घटादिस्वरूपाणि यस्मितादृशमपि दिवा कर्मीभूतं दिनमन्धकारमेवालोकत दिने तस्य दर्शनाशक्तदिनमन्धकाररूपत्वेनैव मेने इत्यर्थः । तथा-व्यक्तं लब्धानि घटादिरूपाणि यत्र नादृशमन्धकारमेवालोकमपश्यद्दर्शनसहकारिप्रकाशरूपत्वेनैव मेने । अन्धकारस्फुटलब्धरूपमित्यावृत्त्या योज्यम् । तेन तमसा विपरीतदृश एव भवन्तीति व्यज्यते । पवंविधमन्धकारं च स्फुटमतिप्रसिद्धं शुक्लभास्वरात्मकं लब्धं रूपं येन तादृशमालोकमेवापश्यत् । कृष्णरूपमपि तमः शुक्लभास्वरालोकत्वेनापश्यदिति विरुद्धमित्यर्थः । अध च--यो ग्रहराजः सूर्यः, आक्रान्तनक्षत्रलक्ष्मीकां तद्भासं सूर्यदीप्तिमेवायमुलूकलोको दिवा दिनेऽन्धकारमपश्यत् । रात्रौ चान्धकारमालोकमपश्यत् । दिने सूर्यालोक एव तमः, रात्रौ च तम एव सूर्यालोक इति ददर्शेत्यर्थः । कीदृशीं तद्भासम् कीदृशमन्धकारम स्फुटमुपलब्धानि घटादिरूपाणि यस्यामन्यजनेन तादृशीम् , स्फुटं संजातस्वरूपलाभे चेत्यन्धकारस्य नपुंसकत्वान्नपुंसकैकशेपैकवद्भावेन वा व्याख्येयम् । सूर्यदीप्त्याऽसमास्कन्दिताऽपराभूता नक्षत्रलक्ष्मीर्यत्र तमन्धकारविशेषणं वा । रात्रौ सूर्यदीप्तेरभावादतिरस्कृतनक्षत्रशोभमित्यर्थः । सूर्यदीप्तेरेव समास्कन्दनसामर्थ्यात्तमसैव रात्रौ यत्तिरस्करणं तेन नक्षत्रशोभा यस्मिन्निति वा इत्यादिव्याख्यानानि ज्ञातव्यानि ! '-----ल[१]क्ष्मीम्' इति पाठे-नदीत्वेपि समासान्तविधेरनित्यत्वात्कवभावः । 'मूर्धाभिषिक्तो राजन्यः' 'अन्धकारोऽस्त्रियाम्' इत्यमरः॥


  1. 'ऋक्षलक्ष्मि' इत्यत्र ( पाठे) दिवाविशेषणत्वपक्षे 'क्रियाव्ययविशेषणानां क्लीयत्वमेकवचनान्तवं च वाच्यम्' इति क्लीवत्वे ह्रस्वः' इति सुखावबोध