पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९९
द्वाविंशः सर्गः।


श्यामत्वलक्ष्म्या विजितं नितरां पराभूतमिन्दुलक्ष्म येन तादृशं पक्ष्म नेत्रसंबन्ध्यूर्ध्वाधः- पुटपत्रीभूतरोमाण्येव तमांसि वयमाचक्ष्महे ब्रूमः, नतु ततोन्यानि तमांसीत्यर्थः । तिमिरव्याप्तत्वात्किमपि न दृश्यत इति भावः । पक्ष्मेति जात्येकवचनम् ॥

विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥३५॥

 विवस्वतेति ॥ विवस्वता नेत्रमित्यपरं नामधेयं यासां ताश्चक्षूरूपा जनानां गावोपि स्वस्य गवां किरणानां सहस्रेण समं सह मिश्रा दिने मिलिताः सत्योऽनायिषतेव नीता इव । यस्मात्तेन खलु तेनैवेदमान्ध्यं प्रकाशाभावान्नेत्रापगमाच्च रूपाग्रहणं, नत्वन्धकारैः कृत्वेदमान्ध्यम् । तमोवशात्किमपि न दृश्यत इति भावः । अन्येनापि गोपालेन स्वगोसहस्रेण मिश्रिताः परेषामपि गावो नीयन्त इति ॥

ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे
औलूकमाहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय ॥३६॥

 ध्वान्तस्येति ॥ हे वामोरु, अतिसुन्दरोरु, ध्वान्तस्य विचारणायां तमःस्वरूपनिरूपविषय वैशेषिकं मतं षट्पदार्थसाधर्म्यवैधर्म्यनिरूपणात्मकं काणादं दर्शनं चारु सदुपपत्तिकं, नत्वन्यदिति मे मतं संमतम् । खलु यस्मात्कारणात्तद्दर्शनं वैशेषिकं शास्त्रं औलूकमाहुर्बदन्ति । अतएव तमसस्तत्त्वनिरूपणायानारोपितस्वरूपनिरूपणाय क्षम समर्थम । उलूकस्य वृकस्य संबन्धि दृश्यतेऽनेनेति दर्शनं नेत्रं हि तमस्यपि घटपटादिस्वरूपाणां याथात्म्यदर्शने समर्थं भवति । वैशेषिकमप्युलूकापरनाम्ना कणादमुनिना प्रोक्तमित्यौलूकं दर्शनम् । ततश्चैतदपि तमस्तत्त्वनिरूपणाय समर्थमिति युक्तमित्यर्थ इति शब्दच्छलम् । वैशेषिकदर्शने च किमिदं तमो भावरूपम्, अभावरूपं वेति संदेहे 'भासामभाव एव तमः' इति सूत्राविरोधेन व्योमशिवाचार्यादयः षट्पदार्थवैधर्मैणाभावरूपमेव तमो न्यरूपयन् । श्रीधराचार्यास्त्वारोपितं भूरूपमेव तम इति निर्वर्ण्य भासामभावे सत्येव तमःप्रतीतेर्भाभाव एव तम इत्युक्तमिति सूत्रविरोधं पर्यहार्यु: । एतदसहमाना श्रीमदुदयनाचार्यादयः पुनर्भासामभावमेव तमस्त्वेन निरणैषुः । यस्मात्तदौलूकं दर्शनं वैशेषिकादिशास्त्रं तमस्तत्त्वनिरूपणायां क्षमं समर्थमाहुरिति वान्वयः । महत्यन्धकार सत्यपि घटादिपदार्थजातं को वा पश्यतीति ध्वान्तनिरूपणायां वृकनेत्रमेव चारु सर्वेभ्योप्यधिकमिति मम मतं मतं पुनः पुनः संमतमित्यर्थः । उलूकनेत्रमेव महान्धकार घटादि विलोकयितुं समर्थम् । अन्यदीयनेत्राणां त्वान्ध्यमेव जानमिति भावः । यतो वैशेषिकं घटादीन्विशेषान्वेत्ति तादृशम् । महान्धकारे घूकनेत्रमेव घटादीन्भेदन जानाति, नत्वन्यदीयं नेत्रम्, तस्मात्तदेव चार्विति । तत्र वृद्धसंमत्यर्थमुत्तरार्धम् । ऊलूकवृत्त्या कणानत्तीति कणादः, तस्य कणादस्यैवोलूक इति नाम तेन प्रोक्तत्वादौलूकम् । 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वः । वामोरु, 'संहितशफ-' इत्यादिनाङि नदीत्वाज्रूस्वः । औलुकम्, 'तेन प्रोक्तम्' इत्यण् । पक्षे 'तस्येदम्' इति ॥