पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९७
द्वाविंशः सर्गः।

 पक्वमिति ॥ भानुबिम्बं प्रत्यग्गिरेः प्रतीच्यां वर्तमानस्यास्ताचलस्य सानुनि कालवशातपक्वं महाकालस्यैन्द्रवारुण्याः फलमासीत् किलाहं मन्य इत्यर्थः। तथाहमतिपक्वत्वाद्वृन्तश्लथत्वादुच्चतरप्रदेशाधस्ताद् दृषदि शिलायां निपातात्तदभिघाताद्धेतोर्भिन्नस्य विदीर्णस्य तस्य भानुबिम्बरूपस्य महाकालफलस्य कृष्णतमानि बीजान्येव तमांसीति जानामितमां नितरां मन्ये । पर्वतादिकठिनभूसमुद्भवं जम्बीरवर्तुलं पक्कं सदतिरिक्तं कृष्णवीजं महाकालफलं गृहोपसर्गनिवारणार्थं गृहद्वारे वृद्धैर्बध्यते । अस्तमयसमयसंबन्धात्परिणतकालं रक्तं महतः कालस्य फलभूतं च भानुबिम्बं महाकालफलमिव, तमांसि च विदीर्णस्य तस्य कृष्णतमानि बीजानीव प्रसरन्तीत्यर्थः । अन्यदिगपेक्षया प्रतीच्यां सायं समये सूर्यसंध्यासंबन्धिनः प्रकाशस्यासन्नत्वादल्पान्धकारसूचनार्थं तमसां बीजत्वेन निरूपणम् ॥

 उदीचीव्यापि तमो वर्णयति-

पत्युर्गिरीणामयशः सुमेरुप्रद[१] क्षिणाद्भास्वदनादृतस्य ।
दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशोभि ॥३०॥

 पत्युरिति ॥ चैत्ररथं कुयेरवनं तदेवान्यन्नाम यस्यास्तादृशी पत्रच्छटा पत्रवल्ली यस्याचैत्ररथाख्यवनरूपपत्रवल्लीकाया उत्तरस्या दिशो मृगनाभिः पत्रवल्लीरचनासाधनभूता कस्तूरी तद्वच्छोभने एवंशीलं कृष्णतमं तमो गिरीणां पत्युर्हिमाचलस्यायश एव । यतः-सुमेरो: प्रदक्षिणीकरणाद्भास्वता सूर्यणानादृतस्यावज्ञातस्य । हिमाद्रिर्यद्यपि गिरीणां पतिः, तथापि सूर्यानादृतत्वाध्दीन एच, मेरुरेव महान् । 'अस्योद्यानं चैत्ररथम्' इत्यमरः॥

 ऊर्ध्वदिग्व्यापितमो वर्णयति-

ऊर्ध्व धृतं व्योम सहस्र[२]रश्मेर्दिवा सहस्रेण करैरिवासीत्।
पतत्तदेवांशुमता विनेदं नेदिष्ठतामेति कुतस्तमिस्रम् ॥३१॥

 ऊर्ध्वमिनि ॥ तमालश्यामलं यद्व्योम दिवा सहस्त्ररश्मेः सहस्रसंख्यैः करैः किरणैः, अथ च-हस्तः ऊर्ध्वं दुरोचप्रदेशे धृतमिवासीत् । तन्नभ एवेदं तमालश्यामलमंशुमता विना सायंसमये सूर्यविनाशाद् धारकेण तेन विनाधःपतन्सन् नेदिष्ठतामतितमां नैकट्यमेति । तमिस्रं कुतः कस्मादागतम् , अपितु तिमिरं नाम किमपि नास्ति, किंतु निकटीभवद्गनमेव तमिस्त्रमित्यर्थः । पतद्व्योमैव तमिस्रं कुतो भूमौ निकटतामेति नतु तदतिरिक्तं तमोस्तीति वा अन्यदपि प(त)त्कस्यचित्कराभ्यामूर्ध्वं धार्यते,तदभावेऽधः पतत्येव । नेदिष्ठताम् , अतिशायने इष्ठनि अन्तिकबाढयोः-' इति नेदादेशः। कुतः पक्षे सावेविभक्तिकस्तसिः॥


  1. प्रदक्षिण करितीति ण्यन्ताभ्दावे धन्न' इति सुखावबोधा
  2. 'यदुष्णरश्मेः' इति सुखाववोधासंमतः पाठः।