पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९४
नैषधीयचरिते

क्रमणानि पुण्यक्षयवशाभ्दूमिं प्रत्यागमनानि गलद्वाष्पजलानां धारा एव पतन्ति । दृशोः सन्ति चिरस्थितिमन्ति यानि बाष्पपृषन्ति तानि तारा इति वा । तत्संक्रमणानि स्थितताराप्रतिबिम्बभूतानि तत्तुल्यानि पतन्ति अधःपातीनि यानि पृषन्ति तानि धारा अश्रुप्रवाहाः । तासां ताराणां संक्रमणानि वीथयो मेषादिसंक्रान्तयो वा धारा अश्रृणां प्रवाहा इति वा । स्त्रियो हि विरहमसहमाना रुदन्ति । सन्ति पतन्तीति च तिङन्तम्,पृषद्विशेषणं वा।

अमूनि मन्येऽमरनिर्झरिण्या यादांसि गोधा मकरः कुलीरः ।
तत्पूरखेलत्सुरभीतिदूरमग्नान्यधः स्पष्टमितः प्रतीमः ॥२१॥

 अमूनीति ॥ हे प्रिये, गौधाख्यास्तारा गोधा, मकरराशिसंबन्धिन्यस्तारा मकरः, कुलीरः कर्कराशिस्तत्संबन्धिन्यस्ताराः कुलीरः, अमूनि प्रत्यक्षदृश्यान्यमरनिर्झरिण्या मन्दाकिन्या यादांसि जलजन्तव एव इत्यहं मन्ये । गोधा मत्स्याः कर्कटका अपि जले वर्तन्ते उपरि च दृश्यन्ते । तस्माद्देवनद्या यादांस्येवैतानीत्यर्थः । तर्ह्युपरिवर्तमानेन द्रष्टुं योग्याः, नत्वधःस्थितेनेत्यत आह-तस्या नाकनद्याः पूरे खेलन्तः क्रीडन्तः सुरास्तेभ्यः सकाशाभ्द्रीदीत्या दूरं तलपर्यन्तं मग्नानि अतएव जलतलगामित्वादधोभागे इतो भूदेशादपि स्पष्टं सुखेन जानीमः । भूभागे स्थिता अपि जलतलगामित्वाद्गोधादियादांसि व्यक्तं पश्याम इत्यर्थः । गोधाकारं ध्रुवमण्डलं, गोधा ज्येष्ठा वा ॥

स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः ।
कस्यापरस्योडुमयैः प्रसूनैर्वादिवश[१]क्तिर्घटते भटस्य ॥ २२ ॥

 स्मरस्येति ॥ त्रिलोकीजये वादनीयो वादनार्हः स्मरस्य संबन्धी अयं प्रत्यक्षदृश्यो विशाखानक्षत्ररूपः कम्बुः शङ्खः दिवि चकास्ति किम् । उच्चतरप्रदेश बादितं बाद्यं सर्वत्राकर्ण्यत इति गगने स्थापितो लोकत्रयविजयवादनार्ह: कामस्यैव कम्बुः किमित्यर्थः । यस्मादपरस्य कस्य भटस्योडुमयैस्तारारूपैः प्रसूनैः कृत्वा वादित्रशक्तिर्वाद्यनिर्माणं घटतेऽपि । स्मरस्यैव धनुर्बाणानां पुष्परूपत्वदर्शनात्तदीयस्यैव वाद्यस्य पुष्परूपत्वसंभावनाया युक्तत्वात् । ताराकुसुमरूपः कामशङ्ग एवायं गगने शोभते, न त्वन्यदीय इत्यर्थः॥

किं योगिनीयं रजनी रतीशं याजीजिवत्पद्मममूमुहच्च ।
योगर्ड्विमस्या महतीमलग्नमिदं वदत्यम्बरचुम्बि कम्बु ॥ २३ ॥

 किमिति ॥ येयं रजनी योगिनी स्त्रीपुंसयोगवती, अथच-शाक्तमन्त्रसिद्धा मारणोच्चाटनाद्यभिज्ञा स्त्री किम् । या रतीशं दिवा निर्जीवमिव निजसंनिधेः अजीजिवत् सजीवं चक्रे । पद्मममूमुहत् पद्मानि च समकोचयत् । रात्रौ हि स्त्रीपुंसयोगे काम उद्दीप्तो भवति, पद्मानि च संकुचन्ति । अलग्नं निराधारमम्बरचुम्बि आकाशवर्ति ता-


  1. 'वादित्रमाष्टिः' इति सुखावबोधासंमतः पाठः ।