पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९३
द्वाविंशः सर्गः


 रामेति ॥ हे कामशरासनमेव भ्रुवौ यस्याः,भ्रूदर्शनमात्रेण कामोदयकारिणि भैमि, रामस्य जामदग्यस्य वा इषुणा मर्मणो व्रणनाभ्देदनाद्धेतोरुत्पन्ना आर्ति: पीडा तस्या वेगादाधिक्याद्धेतोर्निजस्थाने स्थातुमशक्तः सन् भीत्या रत्नाकर एवायं प्राक् तस्मिन्नवसरे उत्पपातोर्ध्वमगात् । नेदं नभः । यः पूर्वमुत्पतितः स श्यामजलः स्फुटरत्नगर्भो रत्नाकर एवायं न त्वेतन्नभ इत्यर्थः । कीदृशः-ग्राहाणां जलचारिणां जन्तूनां वौघस्तेन किर्मीरिता मिश्रिता मीनाः कम्बवः शङ्खाश्च यस्मिन् । नमस्तु ग्रहसंबन्धी ओघः शुक्रबृहस्पत्याख्यताराग्रहसमूहः ध्रुवमण्डलग्रहसंबन्धी समूहो वा तेन मिश्रितो मीनाख्यो राशिः कम्बुः शङ्खाकारविशाखानक्षत्रं च यस्मिन् । रघुनाथेन किल सेतुबन्धसमये शरेण समुद्रो भेत्तुमारब्ध इति तावन्मात्रेण पीडातिशयादुत्पतित इत्युच्यते । परशुरामेणापि निजवसत्यर्थं समुद्रो बाणेन परास्तः सन्नुत्पतितः । समुद्रजलस्यैवायं कालिमा, न तु गगनस्य । उत्पतितस्य समुद्रस्याधोदेशे स्थितानि रत्नग्राहादीनि अधःस्थितेन जनेन सुखेन द्रष्टुं शक्यन्ते । मकरकर्कटादयः साक्षान्मीनादय एव नतु राश्यादिभूताः, शिष्टाश्च ताराः सामुद्रिकमौक्तिकान्येव, नतु तारा इत्यादि ज्ञातव्यम् । शरासनभ्रूरिति उवङ्स्थानत्वान्नदीत्वाभावाध्दस्वत्वाभावः । हूस्वपाठस्तु 'सहैकवंशप्रभवभ्रु' इतिवत्समर्थनीयः । यद्वा शिष्टकविप्रयोगदर्शनाज्ज्ञातव्यः॥

मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण शङ्के ।
पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः ॥ १९ ॥

 मोहायेति ॥ हे भैमि, पुष्पशरेण कामेन देवानामप्सरसां च मोहायान्योन्यमनुरागसंजननार्थं देवादीनामुपरि वर्तमानत्वाद्विमुक्ता ऊर्ध्वं क्षिप्ताः शुभ्रपुष्परूपाः शरा एव तारा इत्यहं शङ्के । ननु कामस्य पुष्पशरत्वेपि पञ्चबाणत्वात्ताराणां बहुतरत्वात्कथं कामबाणत्वमित्याशङ्क्य समर्थयते-खलु यस्मात् पञ्चशरस्य नाम्नि पूर्वपदत्वेन वर्तमानः पञ्चशब्दः प्रपञ्चवाची, प्रकृष्टः पञ्चो विस्तारस्तद्वाचकः, नतु संख्यावाचकः 'पचि विस्तारवचने' इति स्वार्थणिजन्ताद्धातोः पचाद्यचि पञ्चयन्ति विस्तृता भवन्ति पञ्चाः शरा यस्येति विग्रहः, नतु पञ्चसंख्याकाः शरा यस्येति । तस्मात्पुष्पबाणत्वं ताराणां युक्तमेवेत्यर्थः । कस्येव-पञ्चास्यवत् 'सिंहो मृगेन्द्रः पञ्चास्यः' इति सिंहाभिधायिनि पञ्चास्यशब्द सिंहस्य पञ्चसंख्यमुखत्वाभावात् पञ्चयति विस्तृतं भवति पञ्चं विस्तृतमास्यं यस्यासौ पञ्चास्य इति व्युत्पत्त्या पञ्चशब्दो यथा विस्तारवाची तथेति । 'व्यासः प्रपञ्चो विस्तारः' इति हलायुधः ॥

नभोनदीकूलकुलायचक्रीकुलस्य नक्तं विरहाकुलस्य ।
दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानिधाराः॥२०॥

 नभ इति ॥ नक्तं विरहेणाकुलस्य पीडितस्य नभोनद्या मन्दाकिन्याः कूलमेव कुलायः स्थानं यस्य तस्य चक्रीकुलस्य चक्रवाकीसमूहस्य दृशोर्नेत्रयोरपामश्रुजलानां पृषन्ति ये बिन्दवः सन्ति त एव तारका अधःस्थितैर्जनैर्दृश्यन्ते । तथा -- तासां ताराणां सं-