पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८९
द्वाविंशः सर्गः।

स्नुत्वात्कुत्सितनर्तकीरूपां वा ईशां देवीं सन्ध्यां सम्यग्ध्यात्वा सायंसन्ध्यावन्दनं कृत्वाष्टासु मूर्तिषु मध्ये तारापरम्परैव माला यस्यां तया गगनरूपयापि अमूर्तयापि मूर्त्या कृत्वा इदानीं सन्ध्यावन्दनानन्तरमङ्गहारं मुखकरपार्श्वाद्यङ्गानां समतालमानं विक्षेपं करोति किन्न्विति वितर्कः । अमूर्तस्याङ्गहारकरणं चित्रमिति विरोधार्थोपिशब्दः । न केवलं चन्द्रसर्पभोगादिभूषितयैव तन्वाङ्गहारं करोति, किन्तु वियतापि तन्वेति समुच्चयार्थो वा । ईश्वरो हि सायंसमये नृत्यति । भानुरागे मनःशिलातुल्यवर्णां सन्ध्यामपीशां स्वसहचरीं पार्वतीं विचिन्त्य विशिष्टया वियद्रूपयापि तन्वाङ्गहारं तनोति । पार्वतीसमीपेपीश्वरो नृत्यति॥ ॥ अथ च-महानतिप्रवीणो नटः कुत्सितां नटीं नृत्तेऽनतिचतुरामपि सन्ध्यां वयःसन्धौ वर्तमानां तरुणीं रसभावसन्धौ वर्तमानां वा रसभावज्ञाम्, अत एव-सभाया अनुरागे ईशां सभ्यानुरागजनने समर्थो सञ्चिन्त्य वियत्तुल्ययातिविशालया शुद्धमौक्तिकपरम्परारूपया मालयोपलक्षितया तन्वाङ्गहारं तनोति तदसाम्प्रतं किम्, अपितु-रसभावादि जनयन्त्या तया सभ्यानुरागे समुत्पादितेऽपि नृत्तकर्मकौशलेनापि सभ्यानुरागार्थे स्वयमङ्गहारं तनोतीति युक्तमेवेत्यर्थः ॥ ॥ अथ च-महान्नर्तको वयःसन्धौ रसादिसन्धौ वा वर्तमानां तथा समृद्धिमतीमपि स्त्रियं कुत्सितां नटीं नृत्तानभिज्ञां ज्ञात्वा सभानुरागे निमित्ते विशिष्टया तन्वा स्वयमङ्गहारं तनोति तदसाम्प्रतं किं नु, अपितु तस्या नृत्तकौशलाभावान्नृत्तेन सभानुरञ्जने सामर्थ्याभावात्सभानुरञ्जनार्थे स्वयमेव निपुणं नृत्यतीति युक्तमेवेत्यर्थः ॥ ॥ अथ च-अन्योपि महानतिसमृद्धोऽटति सर्वत्र गच्छति तादृशोऽतिचञ्चलोऽतिप्रसिद्धो विटः कुनटीमपि नृत्तविद्यायामचतुरामपि भया कायकान्त्या कृत्वा योऽनुरागस्तद्विषये ईशां सौन्दर्यातिशयेनैव रागमुत्पादयन्तीम् , तथा- शैशवतारुण्ययोः सन्धौ वर्तमानां प्रादुर्भूतयौवनां रसभावसन्धिस्थत्वाद्रसभावज्ञां वा सञ्चिन्त्य कायकान्त्यानुरागे सति कुनटीमपि तरुणीं रसभावज्ञां वा तथेशां सम्पन्नां च विचिन्त्य तदीयशरीरस्यातिविस्तृतया शुद्धमौक्तिकमालया हारं विरचयति तत्रानुरक्तः संस्तस्यै मुक्ताहारं वितरतीत्यर्थः । एवमन्या अपि योजनाः [१]सुधियोहनीयाः। 'सभानुरागैः सन्धाय' इति पाठो बहुषु पुस्तकेष्वदृष्टत्वादुपेक्ष्यः । अटः, पचाद्यच् । सन्ध्याम्, दिगादित्वाद्यत् । तारशब्दस्य नक्षत्रकनीनिकाभिधायित्वं दशमसर्ग एवोक्तम् ॥

भूषास्थिदाम्नस्रुटितस्य नाट्यात्पश्योडुकोटीकपटं वहद्भिः।
दिग्मण्डलं मण्डयतीह खण्डैः सायंनटस्तारकराट् किरीटः॥ ८ ॥

 भूषेति ॥ हे भैमि, तारकराट् चन्द्रः किरीटो यस्य स शम्भुः सायं नटति सायन्नटो नर्तक उद्धतान्नाट्यान्नृत्ताद्धेतोस्त्रुटितस्य भूषास्न्थां दाम्नो मालाया उच्छलितैः खण्डः



  1. अथच-महानटोपि सन्ध्यां वयःसन्धी वर्तमानां कौ भुवि नटीं क्षितावद्वितीयनाटककर्त्रीम् । अतएवं सभानुरागे ईशा सन्ध्याय ज्ञात्वापि वियतातिविशालया तारश्रेणिस्रजोपलक्षितया तन्वा स्वकीयवपुषा यदङ्गहारं तनोति तत्किं साम्प्रतम्, अपितु नटीनृत्यावसरे तस्य नृत्यं तथाविधरसाजनकत्वेनानुचितमेवेत्यर्थः । इति सुखावबांधा।