पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८७
द्वाविंशः सर्गः।

प्राप्तेस्तामधिवास्येत्यत्र सामर्थ्यात्तत्रैवेति ज्ञेयम् । उपश्लोकयति, 'सत्यापपाश-' इति णिच्, स्मयोगे भूते लट् ॥

विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान् ।
अक्षालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य ॥ ३ ॥

 विलोकनेनेति ॥ हे प्रिये, त्वं जलानामधिपस्य वरुणस्य दारान् भार्यां पश्चिमां दिशं विलोकनेनानुगृहाण कृतार्थीकुरु, तावदादौ विलोकनेनानुगृहाण, वर्णनया तु पश्चादित्यर्थः । यावच्चन्द्रोदयादिना प्राच्यां रामणीयकं भवति, तावत्सन्ध्यारागेण कृतरामणीयका पश्चिमां दिशं विलोकयेतिवा तावच्छब्दार्थः । जडाधिपस्य च भार्या दुःखिता विलोकनादिनाऽनुग्रहीतुमर्हा भवतीत्युक्तिः । येयं पश्चिमा दिक् लाक्षापयसालक्तकरसेन कृत्वा केनाप्यक्षालीव क्षालितेव । तथा-कुङ्कुमस्य पङ्कैः कृत्वा केनाप्यपूरीव पूरितेव । एवंविधा रक्ता दृश्यते, यतस्तस्माद्रमणीयामेतां विलोकयेत्यर्थः ॥

उच्चैस्तरादम्बरशैलमौलेश्र्युतो रविर्गैरिकगण्डशैलः । 
तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥ ४ ॥

 उच्चैरिति ॥ हे प्रिये, रविरेव गैरिकाख्यधातुविशेषसम्बन्धी गण्डशैलः उच्चतरादत्युन्नतादम्बरशैलस्य गगनगिरेर्मोलेः शिखरात्सकाशाच्च्युतः पतितः स्थूलपाषाण एवाधः पतितः, अथच-सन्निहितः, पातेनोच्चतरगिरिशिखराद्धःपतनेन हेतुना विचूर्णितस्य विशेषेण सूक्ष्मचूर्णीकृतस्य तस्यैव गैरिकगण्डशैलस्य सम्बन्धिनी सन्ध्यैव रजोराजिः। सन्ध्यासम्बन्धी राग इत्यर्थः । इह सायङ्काले पश्चिमदिशि वा उज्जिहीते उपरिष्टात्प्रसरति । अस्तसमये सूर्यस्य रक्तत्वाद्गगनगिरिशिखराच्च्युतत्वाच्च गैरिकगण्डशैलत्वम् । उच्चतरात्प्रदेशात्पतितो गण्डशैलश्चूर्णीभवति । चूर्णीभूतस्य च रजोराजिरूर्ध्वे प्रसरति । तद्रजोराजिरेव सन्ध्यारागः प्रायेणोर्ध्व प्रसरतीत्यर्थः ॥

अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य ।
यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥ ५ ॥

 अस्तेति ॥ हे प्रिये, कुक्कुटानां पेटकस्य समूहस्य यामान्ते प्रहरान्ते या कूजा शब्दितं तद्वशादुल्लसितैः प्रकाशमानैः किञ्चिदुच्चीभूतैरुत्फुल्लजपाकुसुमतुल्यैः शिखानां शिरसि रक्तचर्ममयकेसराणामोधैर्वृन्दैः किमियं वारुणी दिक् द्राक् अकस्मादरुणीकृता रक्तीकृता । उत्प्रेक्षा । किम्भूतस्य-अस्ताद्रेश्चूडा शिखरं सैवालयः स्थानं यस्य स पक्कणः शबरगृहं तस्यालिः समूहस्तत्रच्छेकस्यासक्तस्य शबरैर्गृहेषु सङ्गृहीतस्य । कुक्कुटानां कूजनेनोन्नमितशिखत्वं जातिः। ते च यामान्ते कूजन्ति । सायंसमये कूजनादुत्फुल्लशिखावृन्दसम्बन्धादरुणीभवनसम्भवार्थे यामान्तेत्याद्युक्तम् । 'पक्कणः शबरालयः' 'गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते' इत्यमरः। 'पेटकं पुस्तकादीनां मञ्जूषायां कदम्बके' इति विश्वः॥