श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं |
श्रीहर्षमिति ॥ तस्य कृतौ श्रीहर्षकृते अतिशयेन नव्येऽपूर्वतरप्रमेयपरिपूर्णे भैमीभर्तुश्चरित्रवर्णनं प्राचुर्येण प्रस्तुतं यत्र तादृशे काव्ये एकविंशतेः पूरणं एकविंशं गणनं संख्यानं यस्य, यद्वा-एकविंशतेः पूरणी एकविंशी गणना संख्या यस्य स सर्गोऽगात् समाप्तः॥
इति श्रीवेदरकरोपनामकश्रीमन्नरसिंहपण्डितात्मजनारायणकृते नैषधीयप्रकाशे एकविंशः सर्गः ॥
द्वाविंशः सर्गः।
इदानीं पूर्वसर्गान्तप्रस्तावितं सायंङ्कालं वर्णयिष्यन्कविर्द्वाविंशं सर्गमुपक्रमते-
उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः। |
उपास्येति ॥ असौ धरेन्द्रो नलः सायंसन्ध्याप्रान्तभवेनान्तिमाशायाः प्रतीच्या आशाया दिशो रागेण रक्तवर्णेन हेतुना कान्ताया अधरचुम्बि अधरोष्ठस्मारि चेतो यस्य तादृशः सन्ध्यारागसदृशभैम्यधरस्मारी सन् तद्विरहासहिष्णुतया बहिरवस्थातुमशक्तो यत्र सा विद्यते तं सप्तमे भूमिभागे कक्षायां स्थितं भैम्याः धरं पर्वतरूपं सौधं हर्म्यं प्रासादस्य सप्तमीमुपकारिकामवाप्तवान् । किं कृत्वा-सान्ध्यं सन्ध्यासम्बन्धिनं सन्ध्याजपादिविधिमुपास्य कृत्वा ॥
प्रत्युद्द्रजन्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम् । |
प्रतीति ॥ सोऽयं नलः सायंकालसम्बन्धिनीं संध्यां रात्रिदिनसंबन्धिनं मुहूर्तं भैम्याः पुर उपश्लोकयति स्म श्लोकैः स्तौति स्म । किं कृत्वा-प्रत्युद्द्रजन्त्या सम्मुखमागच्छन्त्या प्रियया विमुक्तम् अङ्के मध्य स्थिता सज्जा आस्तृता शय्या तूलिका यत्र तं पर्यङ्कमध्यास्य स्वयमधिष्ठाय तां भैमीमप्यधिवास्य तत्रोपवेश्य । पर्यङ्कम्, 'अधिशीङ्-' इति कर्मत्वम् । अधिवास्य, ण्यन्ताद्वसतेर्ल्यप् । तस्य धात्वन्तरत्वात् 'उपान्वध्याङ्वसः' इति कर्मत्वा-