पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८४
नषधीयचरिते

 मध्ये इति ॥ हे प्रिये, त्वं यस्माद्धेतोर्मध्ये उदरभागे बद्धो धृतः अणिमा सौक्ष्म्यातिशयो यया सा कृशोदरी, तथा-गरिममहिमभ्यां गुरुत्वमहत्त्वाभ्यां सह वर्तमानं श्रोणिर्नितम्बः, वक्षोजयुग्मं च यस्याः सा गुरुस्थूलनितम्बा महोच्चकुचा च । तथा- जाग्रत् स्फुरद्रूपं चेतसि वशित्वं जितेन्द्रियता यस्याः सा पतिव्रता । तथा-स्मिते ईषद्धास्येऽपि धृतो लघिमाल्पत्वं यया सा, अल्पहासा । तथा-मां प्रत्युद्दिश्य ईशित्वं स्वामितामेषि मम प्राणेश्वरा । तथा-सूक्तौ वचनचातुर्ये विषये प्राकाम्येन प्रकारबाहुल्येन रम्या वक्रोक्त्यादिनानाप्रकारां वाणीं वक्तुं यो यथा वाञ्छति तं प्रति तथा वक्तुं त्वमेव जानासि नान्या । तथा-दिशि प्राच्यादौ विदिशि आग्नेय्यादौ च यशसः सौन्दर्यादिविषये कीर्तेः कीर्त्या वा कृत्वा लब्धः कामेन स्वेच्छयाऽप्रतिहतप्रसरोऽवसायो गतिर्यया सा त्रैलोक्यप्रसरकीर्तिरेवंविधा यस्मात्, तत्तस्मात्कारणान्मुदितो हृष्ट ईश ईश्वरस्त्वां निर्माय सौन्दर्यादिना परितुष्टः सन् अणिमादीरष्टावपि भूतीर्महासिद्धीस्तुभ्यं स्वस्य शिल्पाय त्वद्रूपाय निजनिर्माणाय प्रायच्छत् । सन्तुष्टो हि पित्रादिरपत्यादेः स्वयम्धृतमलङ्कारादि ददाति । तथेश्वरेण सन्तुष्य स्वयं धृतम् 'अणिमा, महिमा, गरिमा, लघिमा, वशित्वम्, ईशित्वम्, प्राकाम्यम्, कामावसायिता च' इत्येवमष्टविधमैश्वर्यं तुभ्यं दत्तम् । अन्यथैतत्त्वयि कथं स्यादित्यर्थः । एवं सूक्तिः कस्याश्चिदपि नास्तीति भावः । शब्दश्लेषशक्तिच्छलेनैतत्सर्वमुक्तमिति ज्ञेयम् । वाणीवर्णन एव तात्पर्यम्, मध्यादिवर्णनं प्रासङ्गिकम् । अणिमादौ, गुणवचनत्वादिमनिच् । वश इन्द्रियाणां स्वाधीनत्वम्, तदस्यास्तीति वशी, तद्भावो वशित्वं जितेन्द्रियत्वम् । ईशनमीश ऐश्वर्यं तदस्यास्ति ईशी तद्भावः॥

त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव स्तुम-
 स्तस्यार्थे गरुडामरेन्द्रसमरः स्थाने स जानेऽजनि।
द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया
 यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः ॥ १६१ ॥

 त्वदिति ॥ हे प्रिये, वयं त्वद्वाचः स्तुतये न पटवः, तस्मात्पीयूषममृतमेव स्तुमः । तस्थामृतस्यार्थेऽमृतनिमित्तं स पुराणादिप्रसिद्धो गरुडस्यामरेन्द्रस्य च समरः अजनि स्थाने युक्तं तदित्यहं जाने मन्ये । नाम यस्माद्धेतोरनया तव वाण्या यस्मिन्नमृते निजपदयोः प्रक्षालनैवानुग्रहो धृतः कृतः । किम्भूतया-द्राक्षापानकस्य पक्वद्राक्षासम्बन्धिनः संस्कृतरसविशेषस्य मानोऽहङ्कारः तस्य मर्दनं खण्डनं सृजति तया । तथा-क्षीरे दुग्धे विषये दृढा अन्येन त्याजयितुमशक्यावज्ञा यस्यास्तया । अथ च-यस्यिन्पीयूषे भवद्वाक्यभूतया वाण्या स्वीयसुप्तिङन्तरूपाणां पदानां प्रक्षालनादनु पश्चाद्ग्रहणं ग्रहः कृतोऽस्त्येव । अमृतक्षालिततयेव निर्दोषं मधुरं च त्वं वदसीत्यर्थः । द्राक्षाक्षीरे तिष्ठतां, पीयूषादपि त्वद्वाणी मधुरतमेति भावः । प्रभोर्यस्मिन्ननुग्रहातिशयः स एव चरणक्षालनादि करोति ॥