पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
नृसिहप्रसादे

क्तनालविषये वाचकस्य गृञ्जनशद्वस्यान्धपरम्परया मन्वादिना गाज रमभक्ष्यं मन्यन्ते । उक्तं चैतद् बहु प्रायश्चित्ते ।

खः--

‘वर्जयेद् गृञ्जनं श्राद्धं काञ्जिका पिण्डमूलकम् ।
कलम्यां यानि चान्यानि हीनानि रसगन्धतः ॥
श्राद्धकर्मणि वज्यनि कारणं चात्र वक्ष्यते ।
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ।
ब्राह्मणेभ्यो विस्फुरन्तः पतितास्तोयबिन्दवः ।
तत एतानि जातानि वज्यानि श्राद्धकर्मणि ।
पिप्पली मरिचं चैव पटोल बृहतीफम् ।
वंशं करीरं सुरसं गर्ज भूतृणानि च ।
अवेदोक्ताश्च निर्यासा लवणान्युषराणि च ।
श्राद्धकर्मणि वर्षाणि याश्च नायों रजस्वला इति ।

वंशः कुरीरः वंशाङ्कुरः । सर्जकं श्वेतकुठेरपत्रम्। अवे

दोक्ता वेदप्रतिषिद्धा निर्यासा व्रश्चनप्रभवाः। ऊषराणि कृतलव
णानि । रजस्वला दिनत्रयार्घमनिवृत्तरजस्का ।

तथा योगीश्वर

‘नालिका शणछत्राकं कुसुम्भालाबुविभवान् ।
कुम्भी कंबुक-वृन्ताकं कोबिदारांश्च वर्जयेत् ।
तथा कालभरूढानि पुष्पाणि च फलानि च ।
विकारवच्च यत् किञ्चित् प्रयत्नेन विवर्जयेत्" इति ।।