पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


५५
श्राद्धसारे हविर्द्रव्यनिर्णयः

स्खप्रणीते आयुर्वेद निघण्ट्

‘‘मूलकं हरिपर्णं च मृलिकाक्षारसेवितम् ।
नीलकन्दं मह्कन्द रुचिष्य हस्तिदन्तकम् ।।
चाणक्य मूलकं चान्यच्छलेय मरुसभवम् ।
शाखामर्कटकं मिश्री विष्णुगुप्तमनं तथा ।।
चतुर्थमूलिकं चान्यनिर्दिष्टं तद्धि गाजरम् ।
पीतकं मधुरं स्वादु तच्च नारङ्गवर्णकमिति ।

नन्वेतदेव गृञ्जनमिति चेन्मैवम् । सुश्रुतकारादिभिर्गुजरात्

गृञ्जनस्य भेदेनाभिहितत्वात् । गृञ्जन' प्रकृत्य

‘कन्दो महौषध, मद्दकन्दोयोगृञ्जनो दीर्घपत्रकः" इति ।।
“पलाण्डुर्यवनेष्टश्च लाक्षाको दृङ्मः स्मृतः ।
लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् ।
करण्यश्च पलाण्डुश्च लतार्घश्च परारिका ।
गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः इति ।

तथाऽन्यत्र

‘तीक्ष्णो गृञ्जनको ग्राही पितृणां हितकुन्न स’ ? इति ।

तथा--

“वर्णगन्धरसैस्तुल्यो गार्जारस्तु पलाण्डुना ।
पण्यमूलसूक्ष्मत्वात् भिद्यतेऽसौ पलाण्डुत’ इति ॥

ततः प्रद्वेषमात्रेण गाजरञ्जनयोरभेद मन्यन्ते । राजनि

घण्टुसुक्षुतादिषु तु महान् भेदः।
तथोक्त' वाक्यममिसायाम्--'रक्तनालं गृञ्जनकमिति उधृते