पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
श्राद्धसारे पितरः ।

ततश्च मरीच्यादिपुत्राः पितरो मरीच्यादयः पितामहाः ब्रह्मा प्रपितामह इति ।

तथा नागरखण्डे

अमिष्वात्ता बहिषद श्राज्यपा; सोमपाः स्मृताः ।
रश्मिपा उपहूताश्च तथैवायन्तुनः परे ।।
तथा स्वादुषदश्वान्ये स्मृता नान्दीमुखा नृप ? । इति ।


श्वर उवाच ।
अथापराश्च पितरो गुह्याः शृणु नरोत्तम ? ।
विष्णुः पिता ऽस्य जगतो दिव्यो यज्ञः स एव च ।
ब्रह्मा पितामहो ज्ञेयो ह्यह् च प्रपितामहः? ।। इति ।


एते ब्रह्मविष्णुमहेश्वराः पितरो विश्वसृष्टिहेतुत्वात् । पितृपि
तामहाद्यधिष्ठानभूतान्निष्वात्ताद्यधिष्ठातृत्वेन श्राद्धे पितरो देवतारूपा
स्तद्रूपेणानानुसन्धीयमानाः श्राद्धस्य कामपूर्विकामैहिकामुष्मिक
फलोत्पादिकां शक्ति जनयन्तीति । तथा पिण्डा अपि स्मृतिषु
वरुणादिरूपतया उक्ताः । तथा हि--

प्रथमो वरुणो देवः प्राजापत्यस्तथा परः ।
तृतीयोऽग्ःि स्मृतः पिण्ड एष पिण्डविधिः स्मृतः' इति ।
इति श्रीमळुदमीष्टसिहचरणयुगलसरोरुहभ्रमरसकलभूमण्डलमण्डन
समस्तयवनाधीश्वर-श्रीनिजामशाहसमस्तसाम्राज्यधुरन्धर
श्रीमन्महाराजाधिराज श्रीदलपतिराजविरचिते श्रीनृसिहप्रा
सादे श्राद्धसारे पितृदेवतानिरूपणम् ।