पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न चात्र--

‘‘यो याचयति दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस्तस्य कुप्यन्ति दातुभोक्तुर्न संशयः । ।
छुच्छूद्वादशरात्रेण मुच्यते नात्र शंसयः
इत्यादि वचनेन विरोध इति वाच्यम् ।

तयोरनुपकल्पितवस्तुविषयत्वात् । शङ्गलिखिताभ्यां तु उप

कल्पितवस्तुनोऽप्यन्यूनाधिकस्य दानप्रतिग्रहयोनिंषिद्धत्वमुक्तम् ।
तथाहि
“नात्यन्ताधिकं दद्यान्न प्रतिगृहोयात् इति। दातृनियमो दृश्यते
ब्रह्माण्डे

‘न चाश्रु पातयेज्जातु न शुक्तां गिरमीरयेत् ।
न चोद्वीक्षेत शुद्धानं न च कुचौंत मत्सरम् ।
न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रमाधाय मनः श्रद्धं कुर्यात्सदा बुधः' इति ।

अत्र विशेषः । भोजनोपविष्टब्राह्मणानां स्पर्श परस्परं प्राप्ते न ।

भोजनं परित्याज्यं किन्तु भोक्तव्यमेव । भोजनोत्तरं च गायत्र्यष्ट
शतं जपेत् ।

“श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।

तदनमत्यजन भुक्त्वा गायत्र्यष्टशतं जपेत्" इति शब्दंस्म

रणात् ।
तत्र विशेषः

"अङ्गुष्ठेन विनाऽश्नाति सुखशब्देन वा पुनः ।