पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“हुङ्कारेणापि यो ब्या दिन्यादिनिषेधात् । भोजनमपि निः
शेषं न कार्यम् ।

“भोजनं तु न निशेषं कुर्यान्प्राज्ञः कथञ्चनः इति वचनान् ।

क्षीरपायसमधुसफुधृतानि तु नैव परित्यजेत् । क्षीरादिव्य

तिरिक्तस्य दासवर्गभागधेयतया परित्याज्यनां ।
भोजनोपक्रमानन्तरं कुन्यम्-‘सत्रणवां सव्याहृतिकां गायत्री
जपित्वा रक्षोघानि मुक्तानि पित्र्यमन्त्रान् पुरुषसूक्तमप्रतिरथं ब्रह्म
विष्णुरुद्रार्कसोमेन्द्राग्निबृहद्रथन्तरज्येष्ठसामानि मधुब्राह्मण मण्डल
ब्राह्मण विविधसमजप पुराणधर्मशास्त्रप्रमुख नि अन्यान्यपि पत्रि
त्राणि जपेत् ।।

‘स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।
प्रख्यातानीतिहासांश्च पुराणान्यखिलान्यपीति ।

परिवेषणं च सव्येनैव

“अपसव्येन यो दद्यात् आद्धार्थमुपकल्पितम् ।

कृपणो मन्दबुद्धिस्तु न स श्रद्धफलं लभेदिति जमदग्नि

वचनात् ।
अत्र विशेषः

“अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ।
न याचते द्विजो मूल स भवेत्पितृघातकः ।