पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
नृसिहप्रसादे

नाभिव्याहरते ब्रह्म स्वधानिनयनादृते ।।
तथा-काइयपऽपं

‘दिव्ये विप्रकरेऽनग्निः कृत्वाऽश्नौकरणं द्विजः ।
शेष यत्पितृविप्रेभ्यः पिण्डार्थं शेषयेत्तथेति ।


पाणितलदत्तमन्नं पृथक् न भोक्तव्यं किन्त्वेकीकृत्य तदुक्तं
गृहपरिशिष्टे--

यच्च पाणितले दत्तं यच्चान्यदुपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ।
अन्नं पाणितले दत्तं पूर्वमश्नग्स्यबुद्धयः ।
पितरस्तेन तृध्यन्ति शेषान्नं न लभन्ति ते ॥


यदि दैवविप्रकरे होमस्तदा पितृमातामहश्राद्धयर्थ सकृदेवनु
ठेयः । वैश्वदेवभेदेऽपि पितृत्वाधिकरणकारकस्य सम्प्रतिपन्नत्वात् ।
यदा पित्र्ये द्विजपाणौ तदा मातामहब्राह्मणकरेऽपि पार्थक्येनानु
छेयः । वैश्वदेविकतन्त्रत्वेऽपि तत्राधिकरणकारकस्य सम्प्रति
पनत्वात् । इत्यग्नौकरणम् ।
ततः पात्राणि द्विः प्रक्षालयेत् । ततः परिवेषणं यद् हुतशेष
दानानन्तरं तत् ।
“हुतशेषं पितृभ्यस्तु दत्वाऽन्नं परिवेषयेत्’ इति स्मरशत् ।
तमकारस्तूक्तः

‘पाणिश्वानुपसंगृह्य स्वयमनस्य वर्छितम् ।
विश्रान्तिके पितृन् ध्यायन् शनकैरुपनिक्षिपेत्” ।


परिवेषणं भार्यया कर्तव्यम् । ‘‘परिवेषणं भार्ययेति स्मर