पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“दैवविप्रक्ररेऽनग्निः क्रुखारनोफरण द्विज" इत्यादिकारि
कायां विशेषदर्शनात् कनौकरणं सत्यम् । विकट ज्ञातव्यो
व्यवस्थायैदैविकब्राह्मणकरपक्षेऽपि पित्र्यत्रामाणपत्रष्वेव शेष
निक्षेपः ।

"हुत्वा शेषकरेणैव शेषं पित्र्ये निवेदयेथ् ।
न हि स्मृताः शेषभाजो विश्वे देवाः पुरगणैरि' ति

वायुपुराणवाक्यत् ।

ततो दैवपित्र्यकरयोविकल्पः अपि अनोकरविधानात् ।
अथवाऽन्यभाव इति स्तोग्न्यभावाभिप्रायेणैवाभिहितम् । किं तर्हि
अकृतदरपरिग्रहाभिप्रायेण ।

‘श्रयभावे तु विप्रस्य हस्ते दत्वा तु दक्षिणे ।

अग्न्यभावः स्मृतः स्तावद्यावद्यो न विदन्तीति जानूकरें

वचनात् । तस्मादनुपनीतस्य उपनीस्यापि वा अकृतदारपरिग्रहस्य
यदा श्राद्धकर्तृत्वं तद दैवब्राह्मण्फलौकरणं, कृतदारपरिग्रहस्य
श्राद्धकर्तृत्वे पित्र्यब्राह्मणकरे इति व्यवस्था ज्यायमी ।

अनुपनीतानग्निकयोरपि श्राद्धेऽधिकारः ।
“श्राद्धमर्हनि यवेकः पितर्युपरते सुतः ।
विनापि श्रद्धया श्राद्धं तथा कुर्यादनग्निकः ।
पितृयज्ञाहुति पाणौ प्रदद्याद् ब्राह्मणस्य सः ।
अर्हत्यनुपनीतोऽपि विनाऽप्यति विनाऽऽपदम्’ इति ।

तथा

{{c|न ह्यवस्मिन्विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् ।