इति वायुपुराणात् ।
ततो ब्राह्मरुपूजोत्तरं करसम्पुण्ठं शिरसि कृत्वा मन्त्रहीनं क्रि
याहीनमिति पार्थनां कुर्यात् । अत्रावसरे श्रद्धाचमनं कार्यम् ।
श्राद्धे षऽऽचमनश्रवणात् । तथाहि
‘‘श्रादावन्ते तथाऽर्चायां विप्रपादप्रशोधने ।
विकिरे पिण्डदाने च षभिराचमनं स्मृतम्" इति ।
अयमर्थः स्मृतेः । श्रादाविति विप्रपादशोधनात्पूर्वं तथा तच्छो
धनानन्तरं तथा च समानौ श्रामान्तमनुव्रज्येति त्रजनानन्तरम् ।
स्पष्टमन्यत् । तत्र प्रथमतो द्विराचमनं शेषं सकृत्सकृदिति ।
कृत्वा च पितृकार्याणि सकृदथाचम्य शुद्धयती"ति स्मृते ।
गृहस्सृत्यनुरोधतो व्यवस्था ज्ञेया, तत्र पूर्वमग्नौ करिष्य इति ब्राह्म
णाज्ञामादाय कुरुध्वेति तैरभ्यनुज्ञात एव कुर्यादिति नियमः ।
“अग्नौ करिष्यनादाय पृच्छत्यन्नं घृत'लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाऽश्नौ क्षितयज्ञवत् ॥
हुतशेषं प्रदद्यातु भाजनेषु समाहितः।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः
यद्यपि गोधूमा अपि क्षारद्रव्ये पठितास्तथापि त्रीवाद्यभावे
गोधूमानामोदनमकृतितयोपादानात् तद्वर्ज क्षारद्रव्यं निषिच्यते ।।
तथा मदालसावाक्यम् ।