पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
श्राद्धसारे ब्राह्मणपूगप्रकारः

आंद्रेषु तिष्ठमानेषु अनहों यो व्रजेद् धुरम् ।
दुष्कृतं च हरेत्पद्मा श्रायुषा च वियुज्यते ।

यम

प्रायेण मृधः स्मृतिमन्त्रहीन याऽग्रासने तिष्ठति मूर्ध
भावात् ।
नान्यद्भयं पश्यति मूढचित्त इह प्रणाशे नरकं सुघोरम् ।
तथा वशिष्ठः

‘चतुर्णां दुष्कृतं हन्ति ब्राह्मणो विन्नकारकः ।
अन्नस्यानपतिः ५धैस्तथा भोजनकाङक्षिणः । ।
भोजनकाक्षिण इति स्वस्येति शेषः ।
विद्यातपोऽधिकानां वै प्रथमासनमिष्यते।

इत्यादि सुमन्तुवाक्यालोचनेन ब्राह्मणैरेंच परस्परं योग्यतां

पर्यालोच्य यथायथमयासनादिकं योज्यमिति स्थिते हैौ दैवे योन्
पित्र्ये इत्यादि योजना कार्या ।
इदानीं श्रद्धाङ्गभूतचरणप्रक्षालनप्रकारोऽभिधीयते ।
तत्र मत्यः--
‘भवनस्याग्रता भुवि । गोमयेनानानुलिप्तायां गोमूत्रेण तु म
ण्डले” इति ।
अयमर्थः-गोमयसहितेन गोमूत्रेण मण्डलद्वयं कर्तव्यमिति ।
अत्र शम्भूक्तो विशेषः

‘‘सम्भाजिते तु लिप्ते तु दैवे कुर्वीत मण्डले ।
उदप्तवठ्दीच्यं स्याद् दक्षिणं दक्षिणाप्लवम् ।

१७