सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे कार्यान्वयव्यवच्छेत्तृ तत्राथोदयनोऽपठीत् । साधनाव्यापकत्वे स्यात् समव्याप्तिकता तु या ॥ ५९ ॥ साध्येनायमुपाधिः स्यादित्येवमथ ऋक्षरः । कण्टके च जलस्थानेऽप्यृत्विज्यपि तथापरे || ६० || पठन्ति तोयधारायामित्येधितुपदं पुनः । अग्नौ समुद्रे शैले च ककुभस्त्वर्जुनद्रुमे ॥ ६१ ॥ वीणाप्रसेवके गेयभेदे च कलमः पुनः । लेखन्यामङ्कुरे शालिप्रभेदे तस्करेऽपि च || ६२ ॥ कल्लोलस्तु महत्यूर्मौ शत्रौ च रभसोदितः । कपर्दस्तु जटाजूटे देवदेवस्य शूलिनः॥ ६३ ॥ दृश्यते च जटाजूटमात्रे स्याच्च वराटके | कर्दमस्त्वत्र पङ्कारे पङ्के च रभसोदितः ॥ ६४ ॥ कलङ्कस्त्वपवादे च चिह्ने च कलहः पुनः । युद्धे द्वन्द्वे च करभः पुनः कीर्तित आतपे ॥ ६५ ।। तथोक्तो धान्यपवने कटहः पुनरुच्यते । पर्जन्ये कर्णवति च कालायसविनिर्मिते ॥ ६६ ॥ जलपात्रेऽथ कणयः शरभेदे च भाषितः १ ऋतुभेदे च कचपः पुनः शाकपलालयोः ॥ ६७ ॥ पत्रे तिले करूशास्तु नीवृद्भेदे हि भूमनि । स्यात्तु क्षत्रियभेदेऽसौ सर्वैश्च वचनैर्युतः ॥ ६८ ॥ वैद्यस्तु तण्डुलकणे कश्चिद् ब्रूते तु सज्जनः । कुसूले रभसस्त्वाह कदरः खदिरे सिते ॥ ६९ ॥ १. 'स्य विच्छेद त' (?) ङ. पाठः,

  • 'एघतुः पुरुषेऽनौ ना' इति तु मेदिनी ।