पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

 यत्त्विदं घोषस्यातिपवित्रत्वशीतलत्व सेव्यत्वादिकं प्रयोजनमशब्दान्तरवाच्यं प्रमा- णान्तराप्रतिपन्नम् , बटोर्वा पराक्रमातिशयशालित्वं, तत्र शब्दस्य न तावन्न व्यापारः । तथाहि-तत्सामीप्यात्तद्धर्मत्वानुमानमनैकान्तिकम् , सिंहशब्दवाच्यत्वं च बटोरसि- द्धम् । अथ यत्र यत्रैवंशब्दप्रयोगस्तत्र तत्र तद्धर्मयोग इत्यनुमानम् , तस्यापि व्याप्तिग्र. हणकाले मौलिक प्रमाणान्तरं वाच्यम् , न चास्ति। न च स्मृतिरियम् , अननुभूते तद-

बालप्रिया

नेनाह-यत्त्वित्यादि । 'यत्तु अतिपवित्रत्वादिकं पराक्रमातिशयशालित्वं वा तत्रे'ति सम्बन्धः । घोषस्येति । इदं चातिपवित्रत्वादेः तीरे प्रत्यायनद्वारा घोषेऽपि तत्प्रत्या- यनमस्ति तस्यैव परमतात्पर्यविषयत्वादित्याशयेनोक्तम् । यद्वा-घोषाधिकरणस्येति तदर्थः । अशब्दान्तरवाच्यं लाक्षणिक शब्दातिरिक्तशब्दाबोध्यम् । प्रमाणान्तरे. ति । शब्दातिरिक्तप्रमाणेत्यर्थः । बटोर्वेति । प्रयोजनमित्यादिनयमनुषज्यते । ननु तर्हि शब्देनापि न तत्प्रतीतिरित्यलं तद्व्यापारान्तरगवेषणयेत्यत आह- -तत्रे. त्यादि । तत्र पूर्वोक्ते प्रयोजने । शब्दस्य न तावन्न व्यापार इत्युक्तं द्रढयति- तथा हीत्यादिना । तत्सामीप्यादिति । तीरं गङ्गागतातिपवित्रत्वादिधर्मवत् , गङ्गासामीप्यात् , मुनिजनादिवदित्यनुमानमित्यर्थः । अनैकान्तिकं गङ्गातटादिगतशिरः- कपालादौ व्यभिचारि । सिंहेति । बटुः सिंहधर्मवान् सिंहशब्दवाच्यत्वात् , सम्प्रति- पन्नसिंहवदित्यत्र सिंहशब्दवाच्यत्वरूपो हेतुः स्वरूपासिद्ध इत्यर्थः । अनुमानान्तरमा- शंक्य निराचष्टे-अथेत्यादि । एवमिति । लक्षणयेत्यर्थः । इत्यनुमानमिति । तटः गङ्गाशब्दवाच्यवृत्तिधर्मवान् लक्षणया गङ्गाशब्दप्रयोगविषयत्वात् ; बटुः सिंहशब्दवा- च्यवृत्तिधर्मवान् , लक्षणया सिंहशब्दप्रयोगविषयत्वात् ; यो लक्षणया यत्पदप्रयोगविष- यः, स तत्पदवाच्यवृत्तिधर्मवान् इत्यादिरत्र प्रयोगो बोध्यः। यद्वा-इत्यनुमानमिति । एवं व्याप्तिविशिष्टो हेतुरित्यर्थः । तस्यापीत्यादि । तस्मिन् यद्व्याप्तिग्रहणं तत्काले। मौलिकमिति । मूले अनुमानाङ्गव्याप्तिग्रहणरूपे साधनतया भवमित्यर्थः । प्रामा- णान्तरं प्रत्यक्षादि। न चास्तीति। प्रमाणान्तरमित्यनुषज्यते । सामान्यमुखव्याप्त्य- धीनानुमितिस्थले प्रकृतसाध्यहेत्वोः तत्सजातीययोर्वा प्रत्यक्षादिना व्याप्तिग्रहणं वाच्यम् । तच्च लक्षणास्थले व्यभिचारशङ्कया उत्पत्तुन्नार्हतीत्यर्थः । न चेति । इयं पावनत्वा-


 १. गङ्गागतातिपवित्रत्वादेः तीरघोषादावभावाद्वाधश्च ।

 २. मूलमेव मौलिकम् , विनयादित्वात्खार्थिकष्टक् । व्याप्तिग्रहप्रयोजकं प्रत्यक्षा- दिप्रमाणं नास्तीत्यर्थः । व्यप्तिश्चात्र यद्वाच्यवाचकलाक्षणिकशब्दप्रयोगविषयो यो यः, स स तद्वत्तिधर्मवान् इत्यभिमता । तत्र तीरादौ गङ्गादिवृत्तिधर्मस्यातिपवित्रत्वादेर- भावेन नेयं सामान्यमुख्यपि व्याप्तिः प्रामाणिकीति भावः ।

 ३. 'उद्देश्यप्रतिनिद्देश्ययोरैक्यमापादयत्सर्वनाम पर्यायेण तत्तल्लिङ्गभाग्भवति'