पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३ सर्गः धर्मशर्माभ्युदयम् । त्रयोदशः सर्गः।

द्विगुणितमिव यात्रया बनाना स्तनजघनोद्वहनश्रमं वहन्त्यः । जलविहरणवाञ्छया सकान्ता ययुरथ मेकलकन्यका तरुण्यः ॥ १॥ जलभरपरिरम्भदत्तचित्ताः श्रमसलिलप्रसरच्छलेन रागात् । प्रथममिव समेत्य संमुखं ताः सपदि जलै परिरेभिरे तरुण्यः ॥ २ ॥ क्षितितलविनिवेशनात्प्रसर्पन्नखमणिशोणमयूखमङ्घयुग्मम् । श्रमनिवहविलम्बमानजिह्वाप्रसरमिवाध्वनि सुभ्रुवा बभासे ।। ३ ॥ प्रियकरकलित विलासिनीना नवशिखिपत्रमयातपत्रवृन्दम् । मृदुकरपरिमर्शनात्तसौख्य वनमिव पृष्ठगत रराज रागात् ॥ ४ ॥ इह मृगनयनासु साम्यमक्ष्णो प्रथममवेक्ष्य विशश्वसु कुरङ्ग्य । तदनु निरुपमैर्भुवो विलासैर्विजितगुणा इव ताः प्रणश्य जग्मुः ॥ ५॥ वदनमनु मृगीदृशो द्रुमाग्रात्पतदलिमण्डलमाशु गन्धलुब्धम् । क्षितिगतशशिनो भ्रमेण राहोरवतरतो गगनाद्द्युति जहार ॥ ६ ॥ दिनकरकिरणैरुपर्यधस्तात्तुलितकुकूलकृशानुभिः परागैः । पुटनिहितसुवर्णवद्वधूभिः स्वतनुरमन्यत हन्त तप्यमाना ॥ ७ ॥ वनविहरणखेदनिःसह ते वपुरतिपीनपयोधर बभूव । इति किल स मुदस्य कोऽपि दोर्भ्या युवतिमनाकुलितो जगाम रागी ॥८॥ मिलदुरसिजचक्रवाकयुग्मा' प्रथयति भास्वति यौवने प्रकाशम् । स्फुटरवकलहसकास्तरुण्यः सरित इव प्रतिपेदिरे नदीं ताम् ॥ ९ ॥ अधिगतकरुणारसेव रेवा श्रमभरमन्दरुचो विलोक्य तन्वी । जललवनिचितारविन्ददम्भात्सपदि सबाष्पकणेक्षणा बभूव ॥ १० ॥ प्रकटय पुलिनानि दर्शयाम्भोभ्रमणमुदञ्चय निर्भर तरङ्गान् । धनजघनगभीरनाभिनृत्यद्भ्रुकुटि तुला न तथाप्युपैषि तन्व्या ॥ ११ ॥ नयनमिव महोत्पलं तरुण्या सरसिजमास्यनिभ च मन्यसे यत् । तदुभयमपि विभ्रमरुभाभ्या जितमिह वल्गसि किं वृथोद्वहन्ती ॥ १२ ॥ इति मुहुरपरैर्यथार्थमुक्ता क्षणमपि न स्थिरता दधौ ह्रियेव । गिरिविवरतलान्यधोमुखी सा परमपराब्धिवधूर्द्रुत जगाम॥१३॥(कालापकम्)