पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

स्मितं विलासस्य कटाक्षविभ्रम रतेरनङ्गस्य सुधारसच्छटा । यशांसि तारुण्यनृपस्य मेनिरे विलासिनीना शिरसि स्रजो जनाः||१५|| प्रसूनशून्येऽपि तदर्थिनी तरौ नियोजयन्ती करपल्लव मुहु । निरीक्षणात्पत्युरनङ्गविह्वला स्मितं सखीना विदधे सुलोचना ॥ १६ ॥ तदा यदासीत्तनुरामणीयक प्रसूनमालाभरणैर्मृगीदृशाम् । अवैति तद्वर्णयितुं तदा स्मरो यदा कवित्वं लभते प्रसादतः ॥ १७ ॥ कृतेऽपि पुष्पावचये समन्ततो लतासु लीलार्पितपाणिपल्लवा । स्फुरन्नखाशुप्रकरेण तत्क्षण वितेनिरे पुष्पविभङ्गिमङ्गना ॥ ५८ ॥ प्रसूनलक्ष्मीमपहृत्य गच्छता वधूजनाना भयलोलचक्षुषाम् । वनेन मुक्ता विषमेषुशालिना शिलीमुखास्तत्र निपेतुरन्तिके ॥ ५९ ॥ समुल्लसत्संमदवाष्पबिन्दुभिर्निलीयमानैरिव लोचनैर्नृणाम् । वपुर्जलार्द्र श्रमभारभङ्गुरास्तदा वहन्ति स्म कुरङ्गलोचना ॥ ६ ॥ शुभ्राम्भोजविशाललोचनयुगोपान्तेषु विभ्रन्नवा सद्यः प्रस्फुटशुक्तिसपुटतटीनिष्क्रान्तमुक्ताकृतिम् । मूले च स्तनकुम्भयोरनुकृतश्च्योतत्सुधाम्भोलव. स्त्रीणा जीवितमन्मथ समजनि स्वेदोदबिन्दुव्रज ॥११॥ वनान्मकरकेतनप्रणयिनः करोल्लासित- स्फुरत्कमलकेलयस्तुलितपूर्णचन्द्रानना । अशेषकुसुमोच्चयश्रमजलार्द्रदेहास्ततो जवाज्जनितविस्मयाः श्रिय इव स्त्रियो निर्ययु ॥१२॥ तादृक्कान्ताचरणकमलस्पर्शजाग्रत्स्मरस्य प्रस्वेदाम्बुद्रव इव पुरो विन्ध्यधात्रीधरस्य । उद्दामोर्मिप्रसरपुलको धर्ममर्मव्यथाया दृष्ट सैन्यैरसिरिव महान्नर्मदाम्भःप्रवाह ॥६३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वादश सर्ग ।