पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

गुरुस्तनाभोगभरेण मध्यतः कृशोदरीयं झटिति त्रुटिष्यति । इतीव काची कलकिङ्किणीक्वणैर्मृगीदृशः पूत्कुरुते स्म वर्त्मनि ॥ ६ ॥ नितम्बसंवाहनबाहुलालनश्रमोदभारापनयादिभिर्धनै । चटूनि चक्रे मुहुरेणचक्षुषा विचक्षणो दक्षिणमारुतः पथि ॥ ७ ॥ प्रवालशालिन्यनपेतविभ्रमा नितान्तमुच्चैस्तनगुच्छलाञ्छिता । सलीलमुद्यत्तरुणावलम्बिता वन ययौ कापि लतेव जङ्गमा ॥ ८॥ नितम्बबिम्बप्रसराहतक्रमः कुचस्थलीताडनमूर्छितश्च य । विलासिनीना मलयाद्रिमारुः स जीव्यते स्म श्वसितानिलै पथि ॥९॥ प्रियस्य कण्ठार्पितबाहुबन्धना पथि स्खलन्ती विनिमीलनादृशो । प्रकाशयन्तीव मनोभवान्धता जगाम काचिद्वनमेणलोचना ॥ १० ॥ यथाभवन्नूपुरपाणिकङ्कणक्वणप्रगल्भो मणिकिङ्किणीरव । उपेयुषीणा वनमेणचक्षुषा तथा पुरो लास्यमधत्त मन्मथः ॥ ११ ॥ उदञ्चति भ्रूलतिका मुहुर्मुहु प्रकम्पते तन्वि यदोष्ठपल्लव । अवैमि तेन स्मितपुष्पशातनो विजृम्भते ते हृदि मानमारुत ॥ १२ ॥ जगज्जनानन्दविधायिनि क्षणे वृथा त्वयारम्भि मृगाक्षि विग्रह । मनखिनीना सुलभाभिमानता महानृतुप्रक्रम एष दुर्लभ ॥ १३ ॥ अथापराद्ध दयितेन कुत्रचिद्विनोपपत्त्येति तवाकुल मन । परस्पर प्रेम समुन्नति गत भयानि भामिन्यपदेऽपि पश्यति ॥ १४ ॥ अनन्यनारीप्रणयिन्यपि त्वया यदागसा चिह्नमदर्शि स श्रमः । रसेन यस्त्वामभितोऽपि वीक्षते कथ स ते विप्रियमाचरिष्यति ॥ १५ ॥ अपास्तपीयूषमयूखशोभया प्रभातकान्त्येव वियुक्तया त्वया । अनुज्झितस्नेहभर स सप्रति प्रपद्यते दीप इवाभिपाण्डुताम् ॥ १६ ॥ कृतेर्ष्ययेव त्वयि दत्तचेतसो गत क्षुधेव क्वचिदस्य निद्रया। मुखस्य ते दास्यमिवागतोऽधुना शशी स शीतोऽपि ददाह तद्वपु ॥१७॥१. पालवयुक्ता प्रकृष्टकेशयुक्ता च २. विलाससहिता पक्षिसचारसमेता च ३ उच्चै- स्तन-गुच्छलामिछता, उच्चै स्तनगुच्छलाञ्छिता ४ तरणा वृक्षण तरुणपुरुषेण च अवलम्बिता