पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्मरेण कालागुरुपत्रवल्लिवल्ललाटलेखामिषतो नतभ्रुवः । अशेषसंसारविशेषकैर्गुणैर्जगत्रये पत्रमिवावलम्बितम् ॥ ५८ ॥ अनिन्द्यदन्तद्युतिफेनिलाधरमवालशालिन्युरुलोचनोत्पले । तदास्यलावण्यसुधोदधौ बभुस्तरङ्गभङ्गा इव भङ्गुरालका' ॥ ५९॥ तदाननेन्दोरधिरोहता तुला मृगाङ्क चित्तेऽपि न लज्जितं त्वया । यतोऽसि कस्तत्र पयोधरोन्नतौ स मूढ यत्राभ्यधिकं व्यराजत ॥६० ॥ समग्रसौन्दर्यविधिद्विषो विधेर्घृणाक्षरन्यायवशादसावभूत् । तदास्य जाने निपुणत्वमीदृशीमनन्यरूपा कुरुते यदापराम् ॥ ६१ ॥ सरस्वतीवार्थमनिन्द्यलक्षणा गुणान्विता चापलतेव धन्विनम् । विभेव भास्वन्तमतीव निर्मला तमेकभूपालमलंचकार सा ॥ १२ ॥ अथैकदान्त पुरसारसुन्दरीशिर स्रज तामवलोक्य तत्पति । इति स्थिरोत्तानिननेत्रमर्थिनामचिन्त्यचिन्तामणिरप्यचिन्तयत् ॥ १३ ॥ चकार यो नेत्रचकोरचन्द्रिकामिमामनिन्द्या विधिरन्य एव सः । कुतोऽन्यथा वेदनयान्वितात्ततोऽप्यभूदमन्दद्युति रूपमीदृशम् ॥ ६ ॥ द्रुमोत्पलात्सौरभमिक्षुकाण्डत' फलं मनोज्ञा मृगनाभित प्रभाम् । विधातुमस्या इव सुन्दरं वपु कुतो न सारं गुणमाददे विधि ॥ १५ ॥ वपुर्वयोवेषविवेकवाग्मिताविलासवंशव्रतवैभवाढिकम् । समस्तमप्यत्र चकास्ति तादृश न यादृशं व्यस्तमपीक्ष्यते क्वचित् ।। ६६ ॥ न नाकनारी न च नागकन्यका न च प्रिया काचन चक्रवर्तिनः । अभूद्भविष्यत्यथवास्ति साध्विमा यदङ्गकान्त्योपमिमीमहे वयम् ॥१७॥ असारससारमरुस्थलीभ्रमक्लमार्त्तहृन्नेत्रपतत्रिणा मुदे । मृगीदृश' सिक्त इवामृतप्लवैरहो प्रवृद्धो नवयौवनद्रुमः ॥ ६८ ॥ फल तथाप्यत्र यथर्तुगामिन, सुताह्रयं नोपलभामहे वयम् । अनन्यसक्तावनिभारस्विन्नवन्निरन्तर तेन मनो दुनोति न. ॥ ६९ ॥ सहस्रधा सत्यपि गोत्रजे जने सुतं विना कस्य मन. प्रसीदति । अपीद्धताराग्रहगर्भितं भवेदृते विधोर्ध्यामिलमेव दिङ्मुखम् ॥ ७० ॥ १ सरखती, पीडा च २. कर्णिकारपुष्पान्, ३ श्यामलम्