पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। महानदीनोऽप्यजडाशयो जगत्यनष्टसिद्धिः परमेश्वरोऽपि सन् । बभूव राजापि निकारकारणं विभावरीणामयमद्भुतोदयः ॥ २३ ॥ तरङ्गिताम्भोधिदुकूलशालिनीमखर्वपूर्वापरपर्वतस्तनीम् । वरोरुदेशे स निधाय कोमलं कर बुभोजैकवधूमिव क्षितिम् ॥ ३४ ॥ अथास्त पत्नी निखिलावनीपतेर्बभूव नामा चरितैश्च सुव्रता । खितेऽवरोधे प्रचुरेऽपि या प्रभोरभूत्सुधाशोरिव रोहिणी प्रिया ॥ ३५ ॥ सुधासुधारश्मिमृणालमालतीसरोजसारैरिव वेधसा कृतम् । शनैः शनैर्मोग्ध्यमतीत्य सा दधौ सुमध्यमा मध्यममध्यम वय ॥ १६ ॥ स्मरेण तस्याः किल चारुतारस जनाः पिबन्त. शरजर्जरीकृता. । स पीतमात्रोऽपि कुतोऽन्यथागलत्तदङ्गत स्वेदजलच्छलाद्बहि ॥ ३७॥ इत प्रभृत्यम्ब न ते मुखाम्बुजश्रियं हरिप्येऽहमितीव चन्द्रमा । प्रतीतयेऽस्या सकुटुम्बको नखच्छलेन साध्व्याश्चरणाग्रमस्पृशत् ॥ ३८ ॥ प्रयाणलीलाजितराजहसक विशुद्धपाष्णि विजिगीषुवत्स्थितम् । तदद्रिमालोक्य न कोपदण्डभाग्भियेव पद्म जलदुर्गमत्यजत् ॥ ३९ ॥ सुवृत्तमप्याप्तजडोरुसंगम तदीयजङ्घायुगल विलोमैताम् । तथा दधावप्यनुयायिनं जन चकार पञ्चेषुकदर्थित यथा ॥ ४० ॥ उदश्चदुच्चै स्तनवप्रशालिनस्तदङ्गकदर्पविलासवेश्मन । वरोरुयुग्म नवतप्तकाश्चनप्रपञ्चितस्तम्भनिभ व्यराजत ॥ ४१ ॥ जड गुरूकृत्य नितम्बमण्डल स्मरेण तस्या. किल शिक्षितं कियत् । तथाप्यहो सर्वतोऽमुना बुधाधिपानामपि खण्डितो मदः ॥ ४२ ॥ गभीरनाभिहृदमज्जदुद्धरस्मरप्रभिन्नद्विपगण्डमण्डलात् । समुच्चलन्तीव मधुव्रतावलिर्बभौ तदीयोदररोममञ्जरी ॥ १३ ॥ सुहृत्तमावेकत उन्नतौ स्तनौ गुरुर्नितम्बोऽप्ययमन्यत स्थित. । कथं भजे कान्तिमितीव चिन्तया ततान तन्मध्यमतीव तानवम् ॥ १४ ॥ १ महान्-अदीन', महा-नदी-इन २. अष्टसिद्धिरहित , (पक्षे) न नष्टा सिद्धिर्यस्य स ३ चन्द्रोऽपि ४. रात्रीणाम्, (पक्षे) भरीणा शत्रूणा विभी खामिनि ५. लोमर- हितत्वम् , वैपरीत्य च