पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला महाकविश्रीहरिचन्द्रकृतं धर्मशर्माभ्युदयम् । प्रथमः सर्गः । श्रीनाभिसूनोश्चिरमङ्घ्रियुग्मनखेन्दवः कौ मुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्रचक्रचूडाश्मगर्भप्रतिबिम्भमेणः ॥ १ ॥ चन्द्रप्रभं नौमि यदीयभासा नूनं जिता चान्द्रमसी प्रभा सा । नो चेत्कथं तर्हि नदङ्घ्रिलग्नं नखच्छलादिन्दुकुटुम्बमासीत् ॥ २ ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्महर्घष्टललाटपट्टाः । यं स्वर्गिणोऽनल्पगुणं प्रणेमुम्तनोतु नः शर्म स धर्मनाथः ॥ ३ ॥ सप्रत्यपापाः सा इति प्रतीत्यै वह्नाविवाहाय मिथः प्रविष्टाः । यत्कायकान्तौ कनकोज्ज्वलायां सुरा विरेजुम्तमुपैमि शान्तिम् ॥ ४ ॥ भूयादगाधः स विवोधवार्धिवीरस्य रत्नत्रयलब्धये वः । स्फुरत्पयोबुद्बुदविन्दुमुद्रामिदं यदन्तस्त्रिजगत्तनोनि ॥ ५ ॥ १ अस्य कायस्थवशमुक्तामणदिगम्बग्नमतानुयायिन भाद्रदेवसूनो श्रीहरिचन्द्रम हाकवे समन्य सभ्य न ज्ञायते हरिचन्द्रद्वय तावत्प्रमिदम--'पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थिति । भट्टारहरिचन्द्रस गयबन्धो नृपायते ॥' इति हर्षचरितारम्भ बाणभटेन वर्णित प्रथम , विश्वप्रकाशकोषकतुर्महे वरम्य पूर्वपुरुषश्वरकसहिताटीकाकार साहमाइनृपते प्रधानवयो द्वितीय अनयोरेवायमायेकनरम्नृतीयो वेति सदेह कि त्वयमपि (मंगमा युदयकर्ता) स्वकवित्वाच्या माघादिप्राचीनमहाकविकक्षामारो- हति, तस्मानार्वाचीन करिमनयां प्रथमे जवनिकान्तर एकत्र विदूषकोक्तिव्याजेन राजशेखरोऽपि हरिचन्द्रकवि म्मरति एकविशतिमन्मके चास्मिन्महाकाव्ये नगरार्ण- वशलनुपुष्पावचयजलविहारादिकाव्यवणनीयवानुवर्णनपुर मर चतुर्विंशतिजन तीर्थकरेषु पञ्चदशतीर्थकरस्य धमनाथस्य जन्मप्रभृति निर्वाणान्त चरित वर्णितमम्नि २ को प्रथि व्याम , मुद हर्षम् , (अय च) कौमुद कुमुदसमृहम् ३ वर्तत इति शेष ४ अष्टम तीर्थ- करम् ५ षोडश तीर्थ करम ६ चतुर्विंशतितम तीर्थकरम् ७ सम्यग्दर्शनम्, सम्यग्ज्ञा- गम्, सम्यक्चारित्र चति जिनमते गनत्रयमुच्यते रत्नलब्धये ममुद्रमेवा समुचितव