पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

त्वद्वासवेश्माभियुखे गवाक्षे प्रतिक्षण चक्षुरनुक्षिपन्ती । स्वद्रूपमालिख्य मुहु पतन्ती त्वत्पादयो. सा गमयत्यहानि ॥ १६ ॥ स्त्रीत्वादरुद्धप्रसरो यथास्यां शरैरमोधै प्रहरत्यनङ्ग । साशङ्कवत्केवलपौरुषस्थे तथा न दृप्ते त्वयि कि करोति ॥ १७ ॥ यत्कम्पते नि श्वसितैः कवोष्ण गृह्णाति यल्लोचनमुक्तमम्भ । अवैम्यनङ्गज्वरजर्जर तत्त्वद्विप्रयोगे हृदय मृगाझ्या ॥ ६८ ॥ आविर्वभूवु स्मरसूर्यतापे हारावलीमूलजटा यथाङ्गे । खन्नामलीना गलकन्दलीय तथाधिक शुष्यति चञ्चलाक्ष्या ॥६९ ॥ स्तुत्वा दिने रात्रिमहश्च रात्री स्तौति स्म सा पूर्वमपूर्वतापात् । सप्रत्यहो वाञ्छति तत्र तन्वी स्थातु न यत्रास्ति दिन न रात्रि ॥७०॥(युग्मम् ) प्रगल्भता शीतकर स्फुरन्तु कर्णात्पलानि प्रसरन्तु हसा । त्वद्विप्रलम्भज्वरभाजि तस्या वीणाप्यरीणा रणतु प्रकामम् ॥ ७१ ॥ इत्थं घने व्यञ्जितनेत्रनीरे प्रदर्शिते प्रेम्णि सखीजनेन । क्षणान्मृगाक्षी हृदयेश्वरस्य इसीव सा मानसमाविवेश ।। ७२ ॥ (कुलकम् ) प्रकाशितप्रेमगुणैर्वचोभिराक्रम्य बद्धा हृदये सखीभि । आकृष्यमाणा इव निर्विलम्ब ययुर्युवान सविध वधूनाम् ॥ ७३ ।। आ सचरन्नम्भसि बारिराशे श्लिष्ट' किमौर्वामिशिखाकलापैः । खिचण्डचण्डद्युतिमण्डलामप्रवेशसकान्तकठोरताप ॥ ७४ ॥ अथाङ्कदम्भेन सहोदरत्वात्सोत्साहमुत्सङ्गितकालकूट । अङ्गानि यन्मुर्मुरवह्निपुञ्जभाजीव मे शीतकर करोति ॥ ७५ ॥ इत्थ वियोगानलदाहमङ्गे निवेदयन्ती सुमुखी सखीनाम् । समेयुषस्तत्क्षणमद्वितीयामजीजनत्कापि रति प्रियस्य ।। ७६ ॥ (विशेषकम् ) आयाति कान्ते हृदय विधेयविवेकवैकल्यमगान्मृगाक्ष्याः । तत्कालनिखिशमनोभवास्त्रसघातपातैरिव धूर्णमानम् ॥ ७७ ॥ बाष्पाम्बुसंप्लावितपक्ष्मलेखं चक्षु क्षणात्स्फारिततारक च । कि प्रेम मान यदि वा मृगाक्ष्याः प्रियावलोके प्रकटीचकार ॥ ७८ ॥