पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

इति सरसिरुहभ्रमात्प्रियाणामनुसरते वदनानि षट्पदाय । रतिरसरसिकोऽपि लज्जमान किमपि हृदि स्पृहयाबभूव कामी ४० (युग्मम्) प्रियकरसलिलैमनस्विनीना न्यशमि हृदि प्रबलोऽपि मन्युवह्नि। अविरलमलिनाञ्जनप्रवाहो नयनयुगान्निरगादिवास्य धूमः ॥ १ ॥ अपहृतवसने जलैर्नितम्बे निहितदृशं करकेलिपङ्कजेन । प्रियमुरसि विनिघ्नती स्मरस्य स्फुटमकरोत्कुसुमायुधत्वमेका ॥ ४२ ॥ मुखतुहिनकरेऽपि संहतेन स्तनयुगलेन तुला कुतोऽधिरूढे । इति जघनहत पयो वधूना रजनिवियोगिविहगमौ निरासे ॥ १३ ॥ सरभसमिह यत्तटात्पतन्त्यः प्रविविशुरन्तरशङ्कितास्तरुण्यः । घनघुलक इवाशयो जलाना तदुदितबुहुदबिन्दुभिर्बभूव ॥ ४४ ॥ प्रियकरविहितामृताभिषेकैरुरसि हरानलदग्धविग्रहोऽपि । प्रतिफलितचल‌द्द्विरेफदम्भादजनि सजीव इव स्मरस्तरुण्याः ॥ ४५ ॥ निपतितमरविन्दमङ्गनाया श्रवणतटादतिदुर्लभोपभोगात् । मधुकरनिकरस्वनैर्विलोले पयसि शुचेव समाकुल रुरोद ॥ ४६ ॥ अविरललहरीप्रसार्यमाणैस्तरलदृशश्चकितेव केशजालैः । स्तनकलगतटान्ममज्ज पत्रान्तरमकरी सरितः पयस्यगावे ।। ४७ ।। अभजत जघन जघान वक्षस्तरलतरङ्गकरैश्चकर्ष केशान् । विट इव जलराशिरगनाना सरभसपाणिपुटाहतश्चकूज ॥ ४८ ॥ मुखमपहृतपत्रमङ्गनाना प्रबलजलैवलोक्य शङ्कितेव । सरिदकृत ुनस्तदर्थमूर्मिप्रसरकरार्पितशेवलप्ररोहैः ॥ ४९ ॥ सपदि वरतनोरतन्यतान्तर्य इह परिष्वजता जडेन रागः । स किल विमलयोर्युगे तदक्ष्णो स्फटिक इव प्रकटीबभूव तस्याः ॥१०॥ निरलकमपवस्त्रमस्तमाल्य क्षततिलक च्युतयावकाधरौष्ठम् । सह दयिततमैर्निषेव्यमाण सुरतमिवाम्बु मुदेऽभवद्वधूनाम् ॥ ११ ॥ श्रवणपथरतापि कामिनीना विशदगुणाप्यपदूषणापि दृष्टिः । अभजत जडसगमेन राग धिगधिकनीचरताश्रय जनानाम् ॥ १२ ॥१ केशकौटिल्यराहियात.