पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
दैवं

रपि पृ[१]थक्कर्मकर्मणो विभजनार्थत्वसम्भवाद् ।
[२]हुसम्मतत्वाद्वो - भयत्रापि विभाजन इत्येव युक्तं पाठं मन्यते । क्षीरस्वाम्यादयः
पुनर्बहवश्थुरादिं डान्तं पठन्ति । डान्तकाण्डं चैवमनुसृतं भवति ।
शाकटायनः पुनर्भूवादिमपि डान्तकाण्ड एवाध्यगीष्ट । 'वट वेष्ट-
ने' । 'वट भट परिभाषणे' इति च घटादौ पठ्यते । बटेत्यप्याध्यो
बहुषु कोशेषु दृश्यते ॥

 श्लेषालस्योपघातेषु प्रतिघाते क्रमाल्लुठेत् ।
 लुण्ठेल्लोठति लोठेत किन्तु गत्यां च लुण्ठति ॥ ७८ ॥
 रुण्ठतीति गतौ रोठेदुपघाते-

  'लुठ श्लेषणे' । तुदादिः । 'लुड इत्येके' इति मैत्रेयरक्षि-
तः। डान्तकाण्डं चैवमनुसृतं भवति । लुठतीति लक्ष्यदर्शनात्
तुदादौ पाठ इति भूवादौ क्षीरस्वामी । 'लुठि आलस्ये गतिप्र-
तिघाते च' । 'रुठ लुठ उपघाते' । 'उठ इत्यप्येक' इति मैत्रेयर-
क्षितः । उठ इत्येव धनपालः । क्षीरस्वामी त्वेवमेव पठित्वा 'रुठ
लुठेत्यपि दौर्गाः' इत्याह । ऊठ इत्येव शाकटायनः । 'लुठ
प्रतीघाते' । अत्र भूवादिसूत्रे सुधाकरः - 'लुट प्रतिघाते इति
लुटवद् द्वितीयान्तोऽपि प्रलुठितो लोठमान इति प्रयोगदर्शना-
दूरीकृतः' इति । कैयटस्तु 'धातोः कर्मणः समानकर्तृकादिच्छा-
यां वा' (३-१-७) इत्यत्र लुलुठिषत इति भाष्यं व्याचक्षाण
आह- 'रुठ लुठ प्रतिघाते इति द्युतादौ पठ्यते' इति । 'रुठि

लुठि गतौ' ॥


  1. पृथक्कर्म पृथक्करणं विभजनं, तत्क्रिय येत्यर्थः.
  2. विभाजनशब्दार्थद्व- यकल्पनाक्केशमरोचयमानो देवाभिप्रायमन्यथा विवृणोति-बहुसम्मतत्वाद्वेति.