पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
दैवं

तिट्टिषते आतिट्टदिति । 'अट्ट अनादरे' ॥.

 घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात् ।
  'घट्ट चलने' । अन्त्योऽनुदात्तेत् ॥

 णौ लोटयति भाषार्थे लुट्येल्लोटति लोटने ॥ ७३ ॥
 लोटते प्रतिघातेऽर्थे स्तेये लुण्टति लुण्टयेत् ।
 रोटते प्रतिघातेऽर्थे रोषे रोटयतीति णौ ॥ ७९ ॥

  लुट भाषार्थः। 'लुट विलोटने । दिवादिर्भूवादिश्च । अत्र भूवादिसूत्रे सुधाकरः - " 'लुड विलोडन' इति डान्तः । लान्तो ऽपि तु ददृशे । लोलः । 'लोलद्भुजाकारबृहत्तरङ्गः' इति माघे । 'डलयोरेकत्वस्मरणमिति केचिद्' इति वा प्रतिविधेयम्' इति । 'रुट लुट प्रतीघाते' । अनुदात्तेतौ । ठान्ताविमावित्येके । तथा च क्षीरस्वाम्येवमेव पठित्वाह-"रुट लुट इत्येके । 'बाधृ लोटन' इति लिङ्गाद्” इति । तथा 'रुट दीप्तावि'त्यप्यनुदात्तेत्सु स एवाह । लुटि इति तु शाकटायनः । रुट लुट इति हरियोगी । 'रुटि लुटि स्तेये' । क्षीरस्वामी तु- 'रुठि लुठि इत्येके । रुण्ठति लुण्ठति' इति । रुडु लुडु इति डान्तकाण्डे शाकटायनः । '[१]लुण्ट स्तेये' । लुण्ठेति क्षीरस्वामी । लुण्डेति शाकटायनः । [२]तत्र चाद्य एव पाठो 'जल्पमिक्षकुट्टलुण्टवृङः षाकन्' (३-२-१५५) इति सूत्रपाठानुसारी । यस्तु [३]लुटीत्यनेन लुण्टाक इति निर्वाहः क्षीरस्वामिनः, सोऽपि 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमि'ति नीत्या विरुध्यते । लुटीत्यस्य हि लुण्टभावो लाक्षणिकः । स च लुण्टे-


  1. अयं चुरादिः.
  2. लुण्ट लुण्ठ लुण्डेषु.
  3. इदिता.