पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
पुरुषकारोपेतम् ।

सने । 'स्फुटिर्विशरणे' । स्फुटेति चन्द्रः। इरित्फलं तु 'इरितो वा' (३-१-५७) इत्यङ्विकल्पः । अस्फुटत् । अस्फोटीत् ॥

  प्रमर्दने चाक्षेपे च मुटेदाद्ये तु मोटति ॥ ७१ ॥
  सञ्चूर्णने चुरादेर्णौ मोटयेदतङस्त्रयः ।

  'मुट आक्षेपप्रमर्दनयोः'[१] । तुदादिः । 'मुट [२]प्रमर्दने' 'पुडि' इति धनपालः । शाकटायनश्च 'पुडु' इति पठन्नत्रैवानुकूलः । क्षीरस्वामी त्वेतौ पाठौ मुटि मुडि इत्यपरौ चावोचत् । मैत्रेयरक्षितस्तु 'मुडि खण्डन' इत्यत्राह -'पुडि चेत्येक' इति । 'मुट सञ्चूर्णने ॥

 हिंसातिक्रमयोरट्टेरट्टतेऽनादरेऽट्टयेत् ॥ ७२ ॥

  'अट्ट अतिक्रमहिंसनयोः' । अत्र मैत्रेयरक्षितः- "दोपधोऽयमिति स्मर्यते । 'ण्टुना ण्टुः (८-४-४१) इत्यत्र न्यासकारेण तु तकारोपधोऽयमित्युक्तम्" इति । क्षीरस्वामी तु 'पक्षद्वयेऽपि पाठेऽत्र ष्टुत्वं न कृतमसन्देहार्थम्' इत्यप्याह । 'अन्ये [३]अड्डेत्याहुः इति च । तत्र चाद्ये पक्षे संश्चङोः कृतयोः 'नन्द्राः संयोगादय' (६-१-३) इति दकारवर्जं द्विरुक्तौ ष्टुत्वे 'पूर्ववत्सन' (१-३-६२) इति तङि च कृते अट्टिटिषते आट्टिटदिति भवति । अन्ये [४]त्व.


  1. 'आक्षेपमर्दनयोः' इति गपुस्तके पाठः.
  2. 'आध्ये' इत्यस्य विवरणमिदम् .
  3. 'डान्तपाठः प्रकरणविरोधादुपेक्ष्यः' इति माधवः.
  4. उपधाभूतस्य तकारस्य ष्टुत्वे तस्य 'पूर्वत्रासिद्धीयमद्विर्वचन' इति सिद्धत्वाद् टकारद्वयसहितस्य द्वित्वे 'हलादिः शेषः' (७-४-६०) इति निमित्तटकारनिवृत्त्या नैमित्तिकस्य ष्टुत्वत्य निवृत्तौ तकार एवाभ्यासेऽवतिष्ठत इति भावः । 'निमित्तापाये नैमित्तिकस्याप्यपायः' इत्येतदनाश्रयेण तु अटिट्टिषते आटिट्टद् इत्येव रूपं माधवो मन्यते.