पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
दैवं

पुटादिदण्डके 'तुजि पिजी'त्यत्र च लजि लुजीत्यपि पाठात् ॥

 भङ्गे रुजति हिंसायां रोजयेदिति णौ रुजेः ॥ ६९ ॥

  'रुजो भङ्गे । तुदादिः । 'रुज हिंसायाम् । [१]ग्रसादित्वात् सकर्मकादेव णिच् ॥

 घाटयेद् घण्टयेत् सङ्घभाषयोर्घटते मितः ।
 क्रमाद्विकासे शशपोः स्फुटति स्फोटते पदे ॥ ७० ॥
 स्फोटयेत् स्फोटतीति द्वे भेदे विशरणे क्रमात् ।

 अत्र घाटयतिस्फोटयत्योर्विवदन्ते । तत्र धनपालस्तावत्- "चटास्फुट भेदने' उच्चाटयति आस्फोटयति । 'घट च सङ्घाते' । चकारात् पूर्वौ चात्रार्थे णिचमुत्पादयत" इति । शाकटायनस्तु-'चटास्फुटौ घट च हन्त्यर्था' इति । क्षीरस्वामी तु "'चट स्फुट भेदने' चाटयति स्फोटयति । 'घट च' घटधातुश्च भेदने वर्तते । 'हन्त्यर्थाः' । हन्त्यर्थाश्च धातवो णिचमुत्पादयन्ति" इत्युक्ता दर्शनान्तरमप्याह-"'घट च हन्त्यर्थाः' । चटस्फुटधातू द्वौ घट च धातुस्त्रय एते हन्त्यर्था हन्तिना समानार्था णिचमुत्पादयन्ति” इति । मैत्रेयरक्षितस्तु-"'चट स्फुट भेदने' । घट सङ्घाते 'हन्त्यर्थाश्च' । येऽन्येषु नवसु गणेषु हिंसार्थाः पठ्यन्ते, त इह द्रष्टव्याः" इति । तत्र नवस्विति शबादिविकरणविषयेषु भूवादिप्रभृतिषु । इहेति चुरादौ । एतेषु च पक्षेष्वन्त्यस्या[२]नुकूलं दैवम् । घट घटि भाषार्थौ । [३]ततश्चार्थौ यथासङ्ख्यं न भवतः । 'घट चेष्टायाम्' । तस्य तु मित्त्वाद्धेतुमण्णिचि घटयेत् । स्फुट विक-


  1. आस्वादीयत्वात् .
  2. आनुकूल्यं च 'भेदे स्फोटयेद्' इति, 'सहघाटयेद्' इति च कथनात् स्पष्टम्
  3. घाटयसेरपि भाषार्थकत्वादित्यर्थः.