पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
दैवं

 भाषार्थे णिचि भञ्जयेद्

 'भज सेवायाम्' । 'भज विश्राणने' । 'भञ्जो आमर्दने । नोपधोऽयम् । चुत्वेन ञकारः । तेन 'श्नान्नलोप' (६-४-२३) इति नलोपः पूर्वत्रासिद्धम्' (८-२-१) इति चुत्वस्य तत्रासिद्धत्वात् । भाज पृथक्कर्मणि' । तच्च पृथक्करणम् । [१]भजि भाषार्थः ।

अभिहिते त्वर्थे पदं तुञ्जये-
 

 द्धिंसायां शपि तुञ्जतीत्यनिदितस्तस्यां तुजेस्तोजति ॥

  तुजि भाषार्थः । अभिहितोऽर्थो भाषायामित्युक्तोऽर्थः । वक्ष्यमाणापेक्षया विशेषद्योतकस्तुः; पादपूरणो वा । 'तुज तुजि हिंसायाम्' । 'तुजि पालने च' ॥

 सन्तर्जने तर्जयते भर्त्सनार्थे तु तर्जति ॥६६॥

  'तर्ज, भर्त्स सन्तर्जने' । '[२]चितादिः । 'तर्ज भर्त्सने । अर्थैक्येऽपि धातुपाठवशात् पृथक्कथनम् ॥

 वर्णे पिङ्क्ते भवेत् पिञ्जेर्भाषार्थे पिञ्जयेदिति ।

  ’पिजि वर्णे’ । अदादिरनुदात्तेत् । 'पृजिरित्येके इति मैत्रेयरक्षितः । 'पिजुङ् संपर्चन' इति शाकटायनः । पिजि भाषार्थः । 'तुजि पिजि हिंसाबलादाननिकेतनेषु' इत्यर्थान्तरेऽपि चौरादिको तुजिपिजी स्तः ।

 गुञ्जेदव्यक्तशब्दे स्याच्छब्दमाले गुजेदिति ॥ ६७ ॥

  'गुजि अव्यक्तशब्दे' । गुज इत्यपरे । तथा च क्षीर-


  1. अयं पटपुटादिदण्डके पठितः । एवं तुजिपिज्यादयो द्रष्टव्याः.
  2. 'चितादी' इति घपुस्तके पाठः.