पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
पुरुषकारोपेतम् ।

क्त्या प्रागेव गुणे [१]सति पुनराधानं किमर्थमित्यत उक्तम् 'आधिक्यायेति । अधिकस्येत्युक्तौ च गुणान्तराधानेनैवाधिक्यं भायादित्यन्य[२]कृतमप्याधिक्यं संगृहीतं 'वृद्धस्ये'ति । अर्थान्तरेत्वयमर्जिः प्रसिद्धः--'द्रव्यमर्जयन् ब्राह्मणः प्रतिगृह्णीयाद्' इति । अर्ज षर्ज अर्जने ॥

 निङ्क्ते नेनेक्ति नेनिक्ते शौचेऽर्थे पोषणे तथा ॥ ३ ॥

  णिजिर् शौचपोषणयोः । [३]रुधादिर्जुहोत्यादिश्च ॥

 युनक्ति युङ्क्ते योगार्थे समाधौ युज्यते श्यनि ।
 युजेः संयमनार्थे वा णौ योजयति योजति ॥ ६४ ॥

  'युजिर् योगे' । 'युज समाधौ' । अनुदात्तेत् । 'युज पृच संयमने ॥

 भुजेद् भुनक्ति भुङ्क्ते स्युः कौटिल्ये पालनेऽदने ।
 [क्रमेण

 'भुजो कौटिल्ये । 'भुज पालनाभ्यवहारयोः' । तुदादी रुधादिश्व । 'भुजोऽनवन' (१-३-६६) इति तङ् ॥

प्रतियत्नेऽर्जेरर्जयेदर्जनेऽर्जति ।]
 

  ये तु प्रागेव 'प्रतियत्नेऽर्जयेद्' इत्याद्यपाठिषुः, तेऽत्र 'क्रमेण' इत्यादि न पठन्त्यर्थाभेदात् ॥

 सेवायां भजते भजेदिति भजेर्विश्राणने भाजयेद्
 आमर्दे तु भनक्ति भाजयति णौ भाजेः पृथक्कर्मणि ।


  1. विद्यमानत्वेन ज्ञाते सतीत्यर्थः
  2. अन्येन गुणान्तराधानातिरिक्तेन स्वभावादिना कृतम्
  3. अयमनुदात्तेत् । अन्यस्तु स्वरितेत् ।