पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
पुरुषकारोपेतम् ।

सम्पर्चने' इति । तेन च [१]ईदित्स्थाने ऐदित् क्रियते ॥

 गर्जेद् गृञ्जेद् गजेद् गञ्जेच्छब्दने गाजयेण्णिचि॥५९॥

  'गज गाजि गृज गृजि मुज मुजि शब्दार्थाः' । मज मुजीति क्षीरस्वामी चन्द्रश्च । 'मृज मृजीत्यप्याहुरिति च[२] । 'गज मदने च' । शब्देऽस्य पाठो मदने [३]प्रयोगाप्राचुर्यार्थो नूनम् । यदाह 'अघि मघि लघि गत्याक्षेपे । मघि कैतवे च' इत्यत्र मैत्रेयरक्षितः- 'पूर्वमस्य पाठः कैतवार्थस्यान्वा[४]चितत्वद्योतनाय' इति । व्य[५]भिचरति चैतद् 'वृषु पृषु मृषु सेचने । मृषु सहने च' इत्यादौ । [६]गज शब्दार्थः । अत्र च गर्जतीत्येतद् 'गर्ज शब्द' इत्यस्यापि कामं द्रष्टव्यम् ॥

 धर्जेद् धृञ्जेद् ध्रजेद् ध्रञ्जेद् ध्वजेद् ध्वञ्जेद् गतौ शपि ।

  'ध्रज ध्रजि धृज धृजि ध्वज ध्वजि गतौ' ॥

शौचालङ्कारयोर्वा णौ मृजेर्मार्जति मार्जयेत् ॥ ६० ॥
मार्ष्टि शुद्धौ तथा [७]मार्जेः शब्दार्थाद् मार्जयेण्णिचि ।

  'मृजू शौचालङ्कारयोः' । मृजूषिति क्षीरस्वामी; षकारोऽङर्थ इति च । तच्चिन्त्यम्, मृजेति भिदादिपाठात् सिद्धेः । 'मृजेर्वृद्धिः (७-२-११४) इति वृद्धिः । 'मृजू शुद्धौ' । अदादिः ।


  1. 'न डीयश्व्यैदिद्वेटोऽपतः' (४-२-१४३) इति शाकटायनः । 'डीयश्विभ्यामैदितो विकल्पितेटश्च क्तयोरिङ् न भवति, न पतः' इति च तदर्थः.
  2. चाह' इति गपुस्तके पाठः.
  3. चार्थान्वाचययोगेन मदनरूपार्थस्यानुषङ्गिकत्वसम्पादनात् तस्मिन् धातोः प्रयोगाप्राचुर्यं फलतीत्यभिप्रायः
  4. अन्वाचितत्वं = अन्वाचययुक्तत्वं । तद्द्योतनाय.
  5. 'मृषु सहने च' इत्यत्र हि चशब्दः समुच्चयार्थ एवाश्रयणीयो, नत्वन्वाचयार्थः सहने प्रयोगप्राचुर्योपलम्भात् .
  6. गज मार्ज शब्दार्थौ' इति चुरादौ पठितः
  7. मार्ज शब्दार्थे' इति खपुस्तके पाठः