सम्भवतीति तुदादिपाठस्येदमेव फलं न्याय्यम् । एवं च नुंविकल्पाद्विच्छन्ती विच्छतीत्येव युक्तम् । विच्छायतीत्यौत्सर्गिक: शबेवेति नित्यो नुम् ॥
रजते रजतीत्येव रज्यते रज्यतीत्यपि ॥ ५७॥
रागार्थे शप्श्यनोर्द्वे द्वे
'रञ्ज रागे' । 'दंशसञ्जस्वञ्जां शपि' । 'रञ्जेश्च' (६-४-२६) इति, 'अ[१]निदिताम्' (६-४-२४) इति नलोपः ॥
'वज, व्रज गतौ' । 'वज मार्गसंस्कारगत्योः । मार्गण इति धनपालः । 'वज, मार्गेति द्वौ धातू इत्यन्ये' इति क्षीरस्वामी । व्रजेति चन्द्रः। 'व्रज मार्गसंस्कार' इति दुर्गः । उभयोरप्यनयो- र्वजव्रजपक्षयोर्मार्ग(ण?)संस्कार इत्येवार्थस्तन्त्रान्तरे पठ्यते ॥
दीप्तौ शप्येजते तत्र भवेदेजति कम्पने ॥५८॥
'एजृ भ्रेजृ भ्राजृ दीप्तौ' । 'एजृ कम्पने' ॥
वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति ।
'वृजी वर्जने' । रुधादिर्युजादिश्च । तत्र चाद्ये वरण इति धनपालशाकटायनौ । 'वृजि वर्जने' । अदादिरनुदात्तेत् । ईदित्पाठे तु नुमभावाद्वृक्त इति पाठः । तथा च क्षीरस्वामी । वृजि इति पठित्वा 'वृजी इति दौर्गाः । वृक्ते वर्जिता वृक्तः' इत्याह । तत्र चान्त्ये श्वीदितो निष्ठायाम्' (७-२-१४) इतीडभावः ।
शाकटायनस्य त्वयं सम्पर्चने । यदाह-विजुङ् वृजुङ् वृजैङ्
- ↑ अनेन नलोपो दैवादिके.