पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
पुरुषकारोपेतम् ।

आह-शतुर्वा नुं शे स्यादिति तुदादिता । शे हि सति विच्छायती विच्छायन्तीत्यत्र 'आच्छीनद्योर्नुम्' (७-१-८०) इति नुं विकल्प्यते । शपि तु 'शप् श्यनोर्नित्यम् (७-१-८१) इति नित्यं स्यात् ।

  अत्र केचित् तुदादिपाठबलाद्वि१च्छतीत्यपि रूपमिच्छन्ति । 'तुदादिभ्यः शः' (३-१-७७) इति विच्छेः शो विधीयते, न तु विच्छायेः, विच्छेरेव तुदादिषु पाठात् । तच्चैतद् विच्छेः शविधानम् आये नित्ये सत्यायान्ताद् भवत् परिक्लिश्येत । एवंउद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । चा'यादय आर्धधातुके वा' (३-१-३१) इत्यत्र 'शपिउद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः । नित्यम्' इति भाष्ये शब्ग्रहणं विच्छेः शेऽप्यायस्य विकल्पे सत्याञ्जस्येनावकल्पेत । न पुनः शिद्विकरणोपलक्षणतया कथञ्चि४न्नीयेत । तथा च सुधाकरः-'विच्छेस्तुदादिषु पाठो ज्ञापकः सार्वधातुकेऽप्यायप्रत्ययोऽनित्य इति । तेन विच्छतीति सिद्धम्' इति । 'छोः शूङनुनासिके च (६-४-१९) इत्यत्र न्यासकारश्च- 'गां विच्छतीति गोविड्' इति । उद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला; रिक्ताधाराः अपि सनामकः भवेयुः ।यन्नुंविकल्पः फलमित्युक्तं, तुदादिपाठात् तदपि


१. आयादेशाभावपक्षे शे सति रूपमिदम् । अपिशब्दसङ्ग्राह्यं तु विच्छायतीति आयान्तादौत्सर्गिके शपि द्रष्टव्यम् २. एवञ्च = शेऽप्यायस्य नित्यत्वे च. ३. दोषपरिहारार्थ 'आयादयः शपि नित्यम्' इति कश्चिन्यासभेदोऽयम् । अनेन च शपोऽन्यत्र सर्वत्रायप्रत्ययस्य विकल्पः स्वरसतः प्रतीयते. ४. कैयटेन तु नीयते, यत् स आह-"ननु तौदादिकत्वाद्विच्छेः शेन भाव्यं, न तु शपा । एवं तर्हि न्यासभेदोपलक्षणार्थमिदमिति 'शिति नित्यम्' इति तु न्यासः कर्तव्यः" इति । एवं च शेऽप्यायस्य नित्यत्वं फलति । विच्छेः शविधानस्यायप्रत्ययान्तार्थत्वं च गुपादिष्वनुबन्धकरणस्य सन्नन्तसमुदायार्थत्ववदुपपत्स्यत इति पूर्वोक्तः परिक्लेशो- ऽपि न

+ यच्च नुम्' इति गपुस्तके पाठः.