पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
दैवं

अत्र हि 'अनुदात्तौ सुप्पितौ' (६-१-४) इत्यनुदात्तस्तिप्शपोरजि- ति'धातोः' (६-१-१६२) इत्युदात्त उकारः 'उदात्तादनुदात्तस्य स्व- रित' (८-४-६६) इति स्वरितः शप् । 'स्वरितात् संहितायामनुदा- त्तानाम् ' (१-२-३९) इत्येकश्रुतिरिकारः । स एव च प्रचय इत्यु. च्यते । एवं शप्याद्युदात्तं पदम् । शे पुनः 'आद्युदात्तच' (३-१-३) इत्युदात्ते सति मध्योदात्तम् । तथा च 'अनुदात्तं पदमेकवर्जम्' (६-१-१५८) इत्यनुदात्त उकारः । स च 'उदात्तस्वरितपरस्य स- न्नतर' (१-२-४०) इत्यनुदात्ततरः। तिपश्चानुदात्तस्वरितौ पूर्ववत् । 'उछी विवास' इतीदित्त्वेनेदित्त्वाभावान्नुमभावेन तयोः शशपोरु- च्छतीति स्यात् । विपूर्वश्वायं प्रायः प्रयुज्यते । 'ततो रजन्यां व्यु- ष्टायाम्' 'यु२च्छन्ती दुहिता दिवः' । 'उषा उ२च्छदपस्त्रिधः' इति ॥

 णौ विच्छयति भाषार्थे गतौ विच्छायतीति शे ॥ ५६ ॥
 विच्छेराये शतुर्वा नुं शे स्यादिति तुदादिता ।

  विच्छ भाषार्थः । विछ गतौ' । 'छे च' (६-१-७३) इति तुक्सिद्वेर्विच्छ्त्येपपाठ: । तत्र चान्त्याद् ‘गुपूधूपविच्छिपणिपनिभ्य आय' (६-१-२८) इत्याये शे च सति विच्छायतीति भवति । अथास्य तुदादिपाठः किमर्थः । न तावत् स्वरार्थः । 'एकादेश उदात्तेनोदात्त' (८-२-५) इत्यनुदात्तस्य शशपोर्विशेषाभावात् । इह हि शे उदात्ते पूर्ववद्धात्वकारोऽनुदात्तः । शपि त्वनुदात्ते- ऽसावुदात्त इत्येवं सत्यपि विशेषे त४योरेकदेश उदात्त एवेत्यत


१. ईदित्त्वेनेति च्छेदः. २. व्युच्छन्ती (तमांसि) वर्जयन्तीत्यर्थः । इदं तैत्तिरीयब्रामणे तृतीयाष्टके प्रथमप्रश्ने तृतीयेऽनुवाकेऽस्ति. ३. विपूर्वत्वव्यभिचरो- दाहरणमिदम् । अपोच्छद्= अपवर्जयतीत्यर्थः । एतच्च ऋक्संहितायां प्रथमाष्टके

चतुर्थाध्याये चतुर्थवर्गेऽस्ति. ४. धात्वकारशबकारयोः.