पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५३
पुरुषकारोपेतम् ।

 सङ्कोचे कुचतीति स्यात् कोचेत् संवर्चनादिषु ॥५४॥

  'कुच संकोचे । तुदादिः । 'कुच संवर्चनकौटिल्यप्रतिष्ट- म्भविलेखनेषु' । ज्वलादिः । तत्फलं पुनः 'इगुपधज्ञाप्रीकिरःकः' (६-१-१३५) इति प्राप्ते 'ज्वलितिकसन्तेभ्यो णः' (३-१-१४०) इति पक्षे णः कोचः कुच इति । यस्तु 'कुच शब्दे तारे' इति ज्वलादिभ्योऽन्यत्र पठ्यते, तस्य कोचेत् कुच इति द्रष्टव्यम् । तत्र ज्वलादिषु पाठादेवानयोरपि रूपयोः सिद्धत्वेऽपि कुच एवा- त्रार्थे यथा स्यात्, न तु कोचोऽपीत्येवमर्थं पृथक् पठ्यते; न पुनः कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनतारशब्दोप्वित्येकीकृत्यवै॥

  वियोजनेऽर्चयेदर्चेद्यौ स्तुतावृचतीत्यृचे: ।

 ऋचेर्युजादौ मृग्यः पाठः । 'रिच वियोजने' इति प्रागुक्त एव हि पाठो दृश्यते । 'ऋच स्तुतौ' । तुदादिः ॥

  शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते ॥५५॥
  उच्छतीति विवासे स्यादिदितोऽनिदितस्तयोः।

  'उछि उञ्छे' । 'उञ्छो धान्यश आदानं कणिशाद्यार्जनं शिलम्। इति यादवप्रकाशः । श्लोकेऽपि विवास इतिवद् उञ्छे इति सप्तम्येव, न पुनरुञ्छेरिति षष्ठी । विसर्जनीयकल्पनागौरवं चैवं परिहृतम् । यद्येवमुञ्छतीत्येव शशपो रूपं, ततः स्वतः प्राप्ते भूवादावेवायं पठ्यताम् । अथापि 'शतुर्वा नुं शे स्यादिति तु- दादिते'ति वक्ष्यमाणनीत्योञ्छन्ती उञ्छतीति नुम्विकल्पार्थं तुदादौ पठ्येत । तथापि न भूवादौ । तदेवं रूपाभेदात् कुतोऽयं द्विष्पठ्यते इत्यत उक्तं स्वरभेदादिति । उञ्छतीत्यापाततो रूपाभेदेऽपि सू. क्ष्मक्षिकायां मध्योदात्ताद्युदात्तत्वाभ्यां रूपभेदोऽप्यस्त्येवेत्यर्थः ।


१. द्वापश्चाशपद्योक्तः