अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि ॥ ५० ॥
अत्र त्रिभि,स्त्रिभिः, पञ्चभिश्च पदैः क्रमाद्वाक्यत्रयं बालानां योजनीयम् । 'अञ्चु गतौ याचने च' । '१अचु इत्येके' । इति मैत्रेयरक्षितः । '२अचूञ् व्ययीगतौ' इति शाकटायनः । तेन चोदित्स्थाने ३ऊदित् क्रियते । अचि गताविति, अञ्चु गताविति च द्वौ धातू क्षीरस्वामी । तत्र चेदित्वफलमञ्च्यत इत्यादौ 'अनिदितां हल उपधायाः क्ङिति (६-४-२४) इति नलोपाभावः । 'अञ्चु विशेषणे' । 'अञ्च गतिपूजनयोः' ॥
वक्तीति भाषणे वा णौ वाचयेद् वचतीति वा ।
'वच भाषणे'। अदादिर्युजादिश्च । तत्र चान्त्यः पारायणिकैर्नाधीयते इति क्षीरस्वामी । अन्यः पुनः 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३-१-५२) इत्यत्र वृत्तौ परिभाषणे पठ्यते । तथापि परेर४नधिकार्थत्वाद् भाषणमेवार्थः ॥
पृणक्ति पृक्ते सम्पर्के यौ पर्चयति पर्चति ॥५१॥
पृङ्क्त इत्यपरः पाठः । 'पृची सम्पर्के' रुधादिरदादिश्च । अन्त्योऽनुदात्तेत् । अत्र भूवादिसूत्रे सुधाकरः- 'पृचि इति द्रमिडा §वेति नन्दिस्वामी । 'पृङ्क्त' इति । धनपालश्च सर्व नन्दि-
१. अयं च पाठो ‘यः पूर्णादुदचति' (तैत्तिरीयसंहिता. का. ७. प्र. ५. अनु. १.) इत्यादिप्रयोगानुगुणः. २. ञित्त्वमीदित्त्वं चोभयपदित्वाय. ३. तथा च शाकटायनोयं- 'त्व्यूदितः' (४-२-१६ १) इति । ऊदितो धातोः क्त्वाया इड् वा स्यादिति तदर्थः. ४. अनधिकार्थत्वात् = धात्वर्थातिरिक्तार्थशून्यत्वाद् धात्वर्थगतविशेषाद्योतकत्वादिति यावत् । 'अधिपरी अनर्थकौ' (१-४-९३) इति प्रसिद्धस्य परेरनर्थकस्यैवायं प्रयोगो, न तूपालम्भरूपविशेषद्योतकत्येति भावः.
§'निवेति' इति गपुस्तके पाठः.