पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
पुरुषकारोपेतम् ।

  'चक तृप्तौ । घटादिः । 'चकृ तृप्तौ प्रतीघाते च' । क्वचित् पुनः पठ्यते-

 प्रतीघाते च तृप्तौ च चकते चकतीति तु ।
 तृप्तिमात्रे चकेरस्य मित्त्वाच्चकयतीति णौ ॥

  इति । तयोश्च पाठयोस्तृप्ताविति तृप्तिमात्र इति च घटादिपाठपरम् । शेषं च प्रदेशान्तरपाठपरम् । ततश्च यद् घटादौ च शाकटायनेनोभयार्थत्वमुक्तं, यच्च क्षीरस्वामिना घटादावुभयार्थत्वमन्यत्र तृप्त्यर्थत्वं, तदपि संगृहीतं भवति । धनपालः पुनरात्मनेपदिनं 'चक तृप्तावि'त्येव पठित्वा तस्यैव 'चक तृप्तौ प्रतीघाते च' इति घटादौ 'घटादयो मित' इति मित्संज्ञार्थं पाठं मन्यमानस्तत्राप्यात्मनेपदमेवोदाजहार ॥

 दर्शने लोकते लोकेर्भाषार्थे णौ तु लोकयेत् ॥ ४० ॥

  'लोकृ दर्शने' । लोक भाषार्थः* । अस्माच्च सकर्मकादेव णिच् स्यात् । यदाह-'आस्वादः सकर्मकाद्' इति । अत्र मैत्रेयरक्षितः- " 'स्वाद आस्वादने' आ एतस्मात् स्वादः सम्भवि-


 १. घटादिपाठतात्पर्यकम्. एवञ्च योऽन्यैस्तृप्तावेव केवलायां धातुः पठितः, तस्यार्थाद् घटादेः 'चकेद्' इति भवति कस्मिन्नर्थे तृप्तौ प्रतीघाते चेति 'तृप्तौ चकेद्' इत्यस्यार्थो वक्ष्यमाणशाकटायनानुरोधी बोध्यः. तथा 'चकतीति तु तृप्तिमात्रे' इत्यस्यापि. २. भूवादिपाठतात्पर्यकम् . एवञ्च योऽन्यैस्तृप्तिप्रतीघातयोर्धातुः पठितः, तस्यार्थाद् भ्वादेः 'चकते' इति भवति कस्मिन्नर्थे तृप्तावेव केवलायामिति 'प्रतीघाते तृप्तौ च चकते' इत्यस्यार्थो वक्ष्यमाणक्षीरस्वाम्यनुरोधी द्रष्टव्यः. तथा 'प्रतीघाते च तृप्तौ च चकते' इत्यस्यापि. ३. चादन्यत्र ४. परस्मैपदप्रकरणानुवादसामर्थ्यमनादृत्येति शेषः.


  • 'र्थे' इति गपुस्तके पाठः.